या । मात्र संगमाद्यान्मिका | कोरिद्रयानवधारणज्ञानं संशयः स च वाद्यान्तकारवान् न तु त्रिविधः पञ्चविधो
वा लक्षणाभावान । नत्र हि संशयमात्रं वा धर्मिविशेषो वा ?
न्थासलेलकण्ठाभरणम्
विशेष्यावृत्तिप्रकारकं ज्ञानम्, व्यधिकरणवकारावच्छिन्नविषयताप्रतियोगिज्ञानं वा । विभागमाह साचेति । संशयविपर्ययस्वनानध्यवसा यलक्षणेत्यर्थः । केचित्तुत्युपलक्षणम्. एकस्मिन् धमिण विरो धिनानाप्रकारक ज्ञानमित्यर्थः बन्नति ह्यो यथा स्थाणुर्वा पुरुषो वेति, आन्तरः सम्यग्जानाम्यसम्यग् वा इत्याद्यात्मधर्मिकः । वार्त्तिकादिमतमाक्षिपति न विविध इति । भाष्यसतमालिपति न पंचविध इति । समानानेकधम्मोपपत्तेर्विप्रतिपत्ते रुपलब्ध्यनुपलब्ध्यव्यवस्थातो विशेषापेक्षा विमषः संशय इति गोतमीयस्य संशयलक्षणसूत्रस्य भाग्यकृता समानधर्म्म जत्वम समानधम्मंजत्व त्रिप्रतिपत्तिजत्वमुपलब्ध्यव्यवस्थाजत्वमनुपलब्ध्यव्यवस्थाजत्वं चेति पंचधा संशय इति व्याख्या कृता । वार्त्तिककारादिभिश्च उपलब्ध्यनुपलब्ध्यव्यवस्थयोः पूर्वपद विशेषणत्वेनाभिधानात् त्रिविधत्वमुक्तं तदुभयमध्यनुपपन्नमित्यर्थः।अ-
न्यायलीलावतीप्रकाशः
ज्ञानामति । विशेष्यावृत्ति प्रकारकं ज्ञानमित्यर्थः । कोटिद्वयेत्युपलक्षणम्, लक्षणं च प्रतिपादितमधस्तात् । स चेति । मानसमात्रप्रत्यक्षविषयोधर्मी अन्तस्तदन्यद्वाह्यम् । त्रिविध इति । समानधर्मदर्शनजासमानधर्मदर्शनजविप्रतिपत्तिज इत्यर्घ । पंचविध इति । न्यायभाष्यकारोक्तोपलब्धिजानुपलब्धिजाभ्यां सह पूर्वोक्तस्त्रिविध इत्यर्थः । विशिष्योपस्थित एव धर्मिणि विशेषलक्षणप्रवृत्तेरित्यर्थः । संशयमात्रमित्यत्र यदि मात्र-
न्यायलीलावतीप्रकाशत्रिवृतिः
बुद्धिप्रकाशपदद्वयवाच्यत्वमेव लक्षणम्, पिता नाम कुर्यादित्यत्र एकत्वस्य विवक्षितत्वेन शरीरावशेषे तथात्वाभावात् । यदि च प्रथमचरमाश्रमभेदेनापि नामभेदे ईश्वरसङ्केतस्तदा पदत्रयवाच्यत्वं लक्षणमिति रहस्यम् । मिथ्याज्ञानमित्य स्यालीकविषय कमित्यर्थकत्वभ्रमं निरासयति विशेष्यति । चतुष्कोटिकव्याप्तिभयादाह कोटिद्वयेति । मिथ इति । साधारणधर्मदर्शनजत्वादौ लक्षण इत्यर्थ: ।