सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/८१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७३६
म्यायलीलावती


सिद्धेः । व्यतिगेकणाष्टव्यव्यतिरिक्त [] द्रव्यसमवायिकारणवत्त्वानुमाने चोक्त्तदोपानिवृत्तेः द्वितीयानुमाने च यदि द्रव्याश्रितत्वमात्रं साव्यते तदा गुणत्वादेव सिद्ध्यतीत्यष्टद्रव्याश्रितत्वानुपपत्तिर्विशेषणं व्यर्थम् अन्वयिनैव गुणत्वात् तत्सिद्धौ व्यतिरेकिणो वक्रस्य प्रयोगानुपपत्तेः । अष्टद्रव्यातिरिक्तद्रव्याश्रितत्वसाधने च व्यतिरेकव्याप्तरे सिद्धेः साध्यामिद्धौ []तु तत्संदेहानुपपत्तौ पक्षस्थाप्रनी तेर्हेतोः पक्षधमत्वानुपपत्तेः ।

 अत्रोच्यते । अनिश्चितत्वेऽपि विशेषणस्य संभावितत्वात् । इ-

न्यायलीलावतीकण्ठाभरणम्

साध्या प्रसिद्धिरेवेत्याह अष्टेति । द्वितीयानुमान इति । इच्छाइयोऽष्टद्रव्यातिरिक्तद्रव्याश्रिता इत्यनुमान इत्यर्थः । यद्यपि साध्यं विशिष्योल्लि ख्य विकल्पोऽयं न सम्भवति तथाप्यभिप्रायतो विकल्पः । न च वक्ररुचेर्यक्रत्वं न दोष इति वाच्यम् । साध्याप्रसिद्धयादिना तदुपायत्वस्यैव खण्डनात् । साध्याप्रसिद्धौ दोषान्तरमाह साध्येति । सन्देहानुपपत्तावित्युपलक्षणम् सिषाधयिषानुपपत्तिरित्यपि द्रष्टव्यम् ।

 अत्रोच्यत इति । व्यतिरेक्यनुमानमिति शेषः अन्यथा पञ्चम्यनुपपत्ते साध्याप्रसिद्धिदोषं परिहरति विशेषणस्येति । साध्यस्येत्यर्थः । सम्भावित-

न्यायलीलावतीप्रकाशः

उक्तदोषेति । साध्याप्रसिद्धिरूपेत्यर्थः । अन्वयनैवेति । न च व्यतिरेकि णोऽपि तत्र सामर्थ्याीदुपायान्तरमदोष इति वाच्यम् । केवलव्यतिरेकिणोऽसिद्धेर्व्यतिरेकव्याप्तेर्गमकत्वानवधारणात् । प्रयोगानुपपत्तेरित्यादि हेतुत्रये पञ्चमीनिर्देश: । व्यतिरेकी नानुमानमिति साध्यापेक्षया व्यतिरेकिण्यपक्षधर्मत्वं व्युत्पादयति साध्याप्रतीताविति । सन्दे हानुपपत्तिरित्युपलक्षणम् साध्याप्रसिद्धौ सिषाधयिषाघटितमपि पक्षत्वं नास्तीति मन्तव्यम् ।

न्यायलीलावतीप्रकाश विवृतिः

पक्षत्वं नास्तीति । एवञ्च पक्षम्याप्रतीतरिति मूलं प्रतीत्यभावेन विषया-


  1. अष्टद्रव्यातिरिकेत्यादि प्रा० पु० पाठः ।
  2. साध्यामताताविति वर्धमानसंमतोत्र पाठो द्रष्टव्यः ।