प्यत्वं, व्यङ्गयन्वं च विशेपणन्वम् । नित्येषु च द्रव्यत्वं विशेष्यत्वं,
गुणत्वं (च) विशेषणत्वम् । अभावेऽपि [१] तत्प्रतियोग्यविकरणत्वं विशेष्यत्वम् अभावत्वं च विशेषणत्वम् ।
न्यायलीलावतीकण्ठाभरणम
विशेषणस्वामेति । जातेरिति शेषः । यद्यपि व्यक्तिज्ञानजन्यज्ञानविषयत्वं जातीनां न व्यङ्गयन्वं, समानसम्वित्सम्वेद्यत्वात्, न वा व्यक्ति जन्यज्ञानविषयत्वम् अतीन्द्रिये तदसत्त्वात्, तथापि विशिष्टज्ञानजनकज्ञानविषयत्वं जातीनां विशेषणत्वम्, प्रत्ययव्यावृत्त्यधिकरणत्वं च विशेष्यत्वं व्यक्तीनाम् । यद्वा समवायित्वे सतीति श्रोत्रियत्वव्यंजकविशिष्टमातापितृयोनिजत्वादिव्यावर्त्तनाय । गृद्यपि समवायित्वम तीन्द्रियं तथापि जात्या सममगृहीता संसर्गन्वमतसिद्धत्वं वा द्रष्टव्यम् । द्रव्यत्वमिति । समवायित्वमित्यर्थः । गुणत्वमिति । समवेनत्वमित्यर्थः । तेन न सप्रतियोगिक विशेषणविशेष्यमावत्वविरोधः । तत्प्रतियोग्यधिकरणत्वं तत्प्रतियोग्यधिकरणत्वेन प्रतीयमानत्वम् अन्योन्याभावे च तदभित्रत्वेन प्रतीयमानत्वं आरोग्य निषिध्यत इति सि द्धान्तात् । अभावत्वमिति । एतञ्च घटाभाववद् भूतलमित्यत्र द्रष्टव्यम् ।
न्यायलीलावतीप्रकाशः
त्वे सतीति। तच्चायुतसिद्धत्वं, जात्या समम गृहीतासंसर्गत्वं वा । द्रव्यत्वमिति । यद्यपि द्रव्यत्वगुणत्वयोर्निः प्रतियोगिकयोः सप्रतियोगिकविशेषणविशेष्यात्मकत्वावरोधस्तथापि तयोः समवायिकारणत्वावच्छेदकं (च) यद्रूपं तस्य सप्रतियोगिकत्वात्तयात्वम् । अभावे चेति । प्रति योग्याघारत्वेन प्रतीयमानत्वम्, अन्योन्याभावे च प्रतियोग्यभिन्नत्वेन प्रतीयमानत्वं विवक्षितम्, सर्वत्रारोप्य निषिध्यत इति सिद्धान्तात् । अभावत्वमिति । यद्यपि घटाभावद्भूतलमित्यत्रामावत्वं घटप्रति-
न्यायलीलावतीप्रकाशवित्रतिः
तिस्थळ एतदुपन्यासादिति भावः । यद्रूपमिति । यद्यपि तदपि द्रव्यत्वादिक मेवेत्युक्तदोषतादवस्थ्यम्, तथापि समवायिकारणतावच्छेदकीवीशष्टं तव सप्रतियोगिकमिति भावः । यथाश्रुतस्य रूपात्यन्ताभाव-
- ↑ अभावे चेति प्रा० पु० पाठः प्रकाशकृत्संमतः ।