भोगजनकत्वं यागादेश्व एवं यदि देवतामीतिरपि तमिदानं
को विरोधः । तदेतत्स्वर्गनरक कारणम् | कुत: पुनस्तयोः मिद्धि १ आगमादिति चेत् । न यत्सुखं तदभिलाषोपनीतत्वादि-
न्यायलीलावतीकण्ठाभरणम्
जनकत्वं रागादेश्च श्रुतिबलादेवेत्यर्थ: अभ्युपगमवादेनाह एवमिति । एतदिति । अदृष्टमित्यर्थः । तयोरिति । स्वर्नरकयोरित्यर्थः। अहं सुखदुः- खोभयजनक शरीराज्यशरीरवान्नवेति विप्रतिपत्तिः । आगमादिति । “यन्न दुःखन सम्भिनमि" त्यादो । यत् सुखं न तदभिलाषोपनीतं यत् सुखं तन्न दुःखालम्भिन्नं न वा चिच्छिन्नमित्यादित कंप्रतिघातादयोग्यतया तम्यागमस्य ज्ञानाजनकत्वादित्याह यदिति । वाक्यस्यागमस्य । ननु तादृशं सुखविशेषमन्तरेण बहुवित्तव्ययायासाध्ये प्रवृत्तिरेव न
न्यायलीलावतीप्रकाशः
लद्ध्वंलस्य जनकत्वाकल्पनात् । एवं यदीति । अयं चाभ्युपगमवादः । वस्तुतो योगस्य देवताशीतिजनकत्वे मानाभावः । “यज देवपूजायामि"ति हि शाब्दस्मृतिः स्मृतित्वादेव न स्वतः प्रमाणम् । न च यागस्य देवताप्रीतिजनकत्वे मानान्तरमस्ति न वा तस्याः व्यापारत्वं सम्भवति, कृतिभोगलमानाधिकरणस्य फलावसानिकस्य व्यापारस्य कल्पनातू, लाघवात् संस्कारस्य स्वजनकानुभवविषयमात्रे फलजनकत्वभावत्वाच्च । तुल्यन्यायेन धर्मवदधर्मस्थापि सिद्धिरित्यभिप्रेत्य सिद्धवदाह तदेतदिति । अद्दष्टमित्यर्थः । अहं सुखदुःखोभयजनकमच्छरीरातिरिक्तशरीरवान्नवेति संशयः । यत्सुखमिति | निरु-
न्यायलीलावतीप्रकाशविवृतिः
एव ध्वंसस्य सत्ताविरोधित्वादिति | तत्तुच्छम् । परिभाषिक्यां सत्तायां ध्वंसस्याविरोधित्वादिति । ननु शाब्दिकस्मृतिसूलीभूतमेव प्रमाणं प्रमापकं भविष्यतीत्यरुचेराह नवा तस्या इति । लाघवादिति । फलव्यधिक णव्यापारस्य परम्परासम्बन्धेन तदुपपादकतायां गौरवादित्यर्थः । देवताप्रीतेराशुविनाशितया व्यापारत्वं न सम्भवत्येवेति तजन्यसंस्कारस्य तथात्वं वाच्यं, तथासत्याह संस्कारस्येति । स्वर्गनरकान्यतरस्मिन् संशयमाह अहमिति । प्रसिद्धर्थं सत्पदम् । ऐहिकशरीरस्य ध