दिवदिति [१]पक्षधर्मतया तत्सिद्धिः । तथा हि वर्तमानकायनि०पादकानां भूतसूक्ष्माणां क्षेत्रज्ञस्य न प्राग्भवीयमिच्छादिकं प्रेरकम् तस्यानागतदेहोपादानवेदनाभावात् अतोऽन्यद्विशेषगु-
न्यायलीलावतकण्ठाभरणम्
नकत्वात् तन्निर्मित्तस्रग्वदित्यर्थः । तेन प्रेरितत्वं यदि जन्यत्वं तदा मनसा अनैकान्तिकम्, तज्जन्यक्रियाश्रयत्वं चात्मन्यनैकान्निकमित्यादिदोषानवकाशः । न च संस्कारेण अन्यथासिद्धिः, तस्य स्मृतिमात्रजनकत्वेन शरीराजनकत्वात् । आद्यशरीरं च सर्गाद्यकालीन शरीरमभिप्रेतम् तेनेदानीन्तनशरीराणां पूर्वशरीराव्यवहितोत्तरमभावित्वेऽपिन तज्ज्ञानांदिना अन्यथासिद्धिः । पक्षघर्ग्यतावलमेव स्पष्ट यति तथा हीति । अनागतदेहेति । तदुपादानाभिज्ञस्यैव तत्कर्त्तृत्वात् । न चेश्वरज्ञानादिकमेव तथा स्यादिति वाच्यम् । तथा सति जन्म वैचित्र्यानुपपत्तेः । न च चिरध्वस्तस्य यागादेरेव कारणत्वमस्तु कि व्यापारेणेति चेन्न । चिरध्वस्तं व्यापारवदेव कारणमिति पूर्वानुभवे स्मृतिजनके कल्पनात् । न च क्रियैव यागादिरनुवर्त्ततां, तस्य
न्यायलीलावती प्रकाशः
ननु भोक्तृविशेषगुणप्रेरितत्वं यदि तज्जन्यत्वं तदा मन्नयनैकान्तिकम् । प्रतिनियतभोगसाधनत्वमपि यदि भोगावच्छेदकत्वमात्रं, यदि वा देवदत्तभोगासाधारणकारणत्वनुभयथापि दृष्टान्तासिद्धिः, नहि देवदत्तनिर्मित स्रजो देवदत्तभोगावच्छेदकत्वं देवदत्तमात्रभोगजनकत्वं वा । अत्राहुः । संस्काराजन्यं देवदत्ताद्यशरीरं देवदत्तविशेषणगुणप्रेरितं ज न्यत्वे सति देवदत्तभोगसाधनत्वात् देवदत्तनिर्मित स्रग्वत् । पक्षविशेषणमहिम्ना न संस्कारेणान्यथासिद्धिः । न च प्राक्कालीनशरीरमाधुनि-
न्यायलीलावती प्रकाशविवृतिः
शेऽपि प्रेरितत्वमिति समस्तसाध्योपलक्षकंद्रष्टव्यमन्यथा विकल्पा सङ्गते: । भोगावच्छेदकत्वं - देवदत्तभोगावच्छेदकत्वम् । देवदत्तमात्रेति । कदाचित्सम्भवेऽपि नियमाभावादिति भावः । देवदत्तनिर्मितेति । तद्भोगसाधनेत्यपि बोध्यम् । नचेति । पूर्वशरीरे सत्येवोत्पन्नशरीरे मरणो
- ↑ नियतपक्षेति मु० पु० पाठः ।