सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/७३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६५९
न्यायलीलावतीकण्डासरण-सविवृतिका श्शोद्भासिता


 कथं पुन: पुरुषविशेषगुणो धर्मः सिद्ध्यति ? यागाधारावितदेवतामीतिरेर फलं फलिष्यतीति । तथा हि विवादाध्यासितं [१] सुखमाराध्यचेतनपूर्वकम् आराधनामतत्वात् भूपालाराधनाघमनसुखवत् । तम । देवदत्ताबदेहादिकं भोक्तृविशेपगुणप्रेरितभूतपूर्वकं देवद सप्रति वियत योगसाधनत्वात् रत्रगा-


न्यायलीलावतीकण्ठाभरणम्

अनुभवजनित संस्कार एवं द्वारमिति नापूर्वसिद्धिरित्याह-कथमिते । धर्म्म इत्युपलक्षणम्, अधर्म्मोऽपि कथमित्यर्थः । धर्म्मपदमडष्टरूपध र्म्मपरं वा, अत एव वक्ष्यति "तदेव स्वर्गनरककारणमिति । विवादा ध्यासितमिति । स्वर्गरूपमित्यर्थः । आराधना गौरवितप्रीतिहेतुः क्रिया यागदानरूपा । आराध्यचेतनपूर्र्वक मिति । तत्प्रीतिपूर्वक मित्यर्थः । देवदत्ताघेति । देवदत्ताद्यशरीरं देवदत्तविशेषगुणजन्यं जन्यत्वे सति तद्भोगज-

न्यायलीलावती प्रकाशः

 स्वर्गकामो यजेतेतिविधेर्यागस्य साक्षादलाधनस्य साधनता प्रतीता व्यापारं विनाऽनुपपद्यमाना स्वनिर्वाहकमपूर्व कल्पयतीत्याक्षिपति कथमिति । देवताप्रीतिरेव यागस्य व्यापारः, न च तस्य नकत्वे मानाभाव, "यज देवपूजायामि" ति शाब्दिकस्मृतेः, पूजायाश्च गारतिप्रीतिहंतुक्रियात्वात् प्रीतेश्यावर विनाशित्वेऽपि तदनुभव जन्यसंस्कारद्वारा हेतुत्वसम्भवात् किमपूर्वकल्पनयेत्यर्थः । देवदत्तेति ।

न्यायलीलावतीप्रकाश विवृतिः

दलं तन्तुसंयोगादावण्यस्तीति साध्याव्यापकत्वपरीहाराय विशिष्टं प्रतियोगित्वेनोपात्तम् । मात्रपदं च उपनीतभानमादाय तन्तुसंयोग एव साध्याव्यापकत्वनिरासाय । विशेष्यता श्रोत्रग्राह्यत्वलाभायेति तथासति पक्षेतरतापत्तेः । विशेष्यताला भेऽपि सामान्य प्रत्यासत्तिमादाय साध्याव्यापकत्वाच्च । साधनाव्यापकत्वं तु सन्दिग्धमेव शाकपाकजत्वादाविवेति दिक् ॥

 आक्षेपाधिकरणं पूरयति स्वर्गकाम इति । मनसीति । एतच्च यदि मूले प्रेरितमिति पाठस्तद, यदि प्रेरितभूतपूर्वक मिति तत्र पाठस्तदा प्रका


  1. ↑ दास्पदं इति मु० पु० पाठः ।