पूर्वानुभवस्यापि गोचरः, तदा तत्रापि तदित्युल्लेखः स्यात्, न च क्कचिदिदमिति स्यात् । न चेत्, स्मृतिरेव तत्रानपेक्षेति मानम् ।
तत्ता च न ज्ञातता । ज्ञातोऽयं सोऽयमित्यनयोर विशिष्ट विषयतापत्तेः। नाप्यतिवृत्तानुभव विशिष्टता, तस्याः पूर्वानुभ[१] वेनानुल्लेखात् | स्मृतिवलादेव तरकल्पनेति चेत् । न । अननुभूत एव स्मृतिस्तत्तांश इति कल्पनापत्तेः । नापि पूर्वकालवि
न्यायलीलावतीकण्ठाभरणम्
ननु ज्ञाततैव तत्ता, सा च ज्ञातोऽयमित्यनुभवव्यवस्थितैवेत्यत आह तत्ता चेति । स्मृतिबलादिति । स्मृतौ तत्ताभानान्यथानुपपत्यैव पूर्वानुभवविशिष्टता तत्ता कल्पनीयेत्यर्थः । यद्वा पूर्वानुभवस्थापि स्व गांचरत्वं कल्पनीयमित्यर्थः । कल्पना चेत्तदेवमेव कल्पना स्यादित्याह अननुभूत इति । इत्यत्रपिति । स्मृतेरव्येप्रकारापत्तेरित्यर्थः । अ-
न्यायलीलावतीप्रकाशः
विषयतत्ताविषयकत्वानुपपत्तिरित्यर्थः । तत्रापि पूर्वानुभवेपीत्यर्थः । नचेदिति । तत्ता पूर्वानुभवगोचर इत्यनुषङ्गः । तत्रेति । तत्तायां स्मृतिः पूर्वाऽनुभवानपेक्षेति तत्र प्रमैव स्यादित्यर्थः ।
ननु ज्ञाततैव तत्ता सा च पूर्वानुभवगोचर इति तत्र सापेक्षैव स्मृतिरित्यत आह तत्तेति । तस्या इति । अतीतानुभव वैशिष्टयानुभवाविषयत्वेन स्मृत्या तदुल्लेखानुपपत्तेरिति भावः । परेणानुभूयत इति ज्ञानेऽपि स इति प्रयोगाभावाच्च । नाप्ये तज्जन्मातीतस्वानुभववैशिष्ट्यं, तदगमेऽपि तत्तासंशयविपर्ययदर्शनात् । अत एवातीतानुभवविषयत्वमेव तत्, तच्चानुभवाविषयेऽपि यदा ज्ञानान्तरेणोल्लिख्यते तदा स घट इति स्मृतिनों वेत् प्रमृष्टतचा सा इत्यपास्तम् । सहप्रयोगानुपपत्तेश्चेति भावः । स्मृतिबलादेवेति । अनुभूतमात्र विष यत्वात् स्मृतेरनुभवस्य तत्ता विषय इत्यर्थः । अनुनभूत एवेति । तत्तदंशे ऽननुभूत विषयैव स्मृतिरित्येव किन्न कल्प्यते इत्यर्थः । ननु पूर्वकाल-
न्यायलीलावतीप्रकाशविवृतिः
पारमार्थिक एव न स्यादिति भावः । ननु ज्ञाततैवेति । यद्यत्ययं घट
- ↑ पूर्वमनुल्लेखात - इति पु० पाठः ।