सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/६९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६२८
म्यायलीलावती


व्याप्त्यनुलम्भस्य तु कारणाभावत्वेन स्वरूपदोषत्वात् । अत एव व्यभिचारसंदेहस्य विपक्षव्यावृत्यपरिच्छेदोपजीवित्वेन संदिग्धानैकान्तोऽपि न पृथक् दुषणम् । पक्षैकदेशहात्तरनध्यवासि-


न्यायलीलावतीकण्टाभरणम्

तेनेति । नन्वसिद्धिरपि कथं दोष इत्यत आह अनुपलम्भस्य विति । प्रतिबन्धानुपलम्भस्येत्यर्थः । अतएवेति । कारणविरहोपजीविकत्वादेवेति, विपक्षव्यावृत्तिज्ञानमनुमितिकारणं सन्दिग्धानैकान्तिकं च तद्विघटनद्वाराऽनुमितिप्रतिबन्धकमित्यर्थः । पक्षैकेति । सति सपक्षे सपक्षाड्या-

न्यायलीलावतीप्रकाशः

साधनं यथा पक्षताविघटनद्वारा दूषकं न स्वत इत्यर्थः । तेनोपाधि नेत्यर्थः । अतोऽसिद्धावन्तर्भाव इति भावः । कारणाभावत्वेनेति । अनुमितिकारणव्याप्तिज्ञानाभावत्वेनेत्यर्थः । नन्वेवं सन्दिग्धानैकान्तिकमपि व्यभिचारात् पृथक् दूषणं स्यात, नहि तत्रानैकान्तिकमेव दूषणं विपक्षवृत्तित्वेनानिश्चितत्त्वादित्यत आह अतएवेति । अनुमितिकारणविपक्षव्यावृत्तिनिश्चर्याविरहोपजीवकत्वादसिद्ध एव तस्यान्तर्भाव इत्यर्थः । पक्षैकेति । सर्वसपक्षविपक्षव्यावृत्त इत्यर्थः । अनैकान्ति कस्य संशयफलकहेत्वाभासत्वाद साधारणधर्मस्थानध्यवसायज्ञानजनकत्वादिति भावः । ननु सपक्षत्वं न साध्यवन्मात्रत्वं विपक्षावृत्तेर्वृत्तिमतः साध्यवद्वृत्तित्वनियमात्, नापि पक्षान्यसाध्यवत्वं शब्दोऽनित्यः शब्दत्वादित्यत्र व्याप्तिग्रहदशायां सद्धेतावतिव्याप्तेः । मैवम् । सर्वनिश्चितसाध्यवद्विपक्षव्यावृत्तस्यासाधारणतयाऽनध्यवसितत्वात्, शब्दत्वाइनित्यत्त्वव्याप्तिग्रहदशायां शब्दे साध्यनिश्चया-

न्यायलीलावतीप्रकाश विवृतिः

व्याप्तिज्ञानकारणाभावत्व भ्रमनिरासायाह अनुमितिकारणेति । तस्यान्तर्भाव इति । इदं च समाधिसौकर्यात । वस्तुतः साध्यवदन्यत्वांशनिश्रयीभूतसाध्यवदन्यवृत्तित्वज्ञानं तत्राप्यविकलमेवेति ध्येयम् । व्यतिरेके हेतोरतिव्याप्तिभयेन व्याचष्टे सर्वसपक्षेति । व्यभिचारिणोऽभेदमाशङ्कयाह अनैकान्तिकस्येति । एतन्मते संशयानध्यवसाययोर्भेदादिति भावः । शब्दत्वानित्यत्वेति । व्यतिरेकव्याप्तिग्रहदशायां यद्यपि न सा-