न्यायलीलावतीप्रकाशः
थासति बाधस्य हेत्वाभासत्वव्याघातात्, अनुमित्यसाधारणदोषस्यैव हेत्वाभासत्वात् । अथ पक्षाभिमते साध्याभावग्रहवत् साध्याभावव्याप्यग्रहोऽपि दूषकः विरोधित्वाविशेषात्, एवञ्च साध्याभावसामानाधिकरण्यमनैकान्तिकत्वम्, लाध्याभावव्याप्यसामानाधिकरण्यं च बाधः, साध्याभावव्याप्यं च वह्नित्वाद्येव । मैवम् । पक्षत्वाभिमते साध्याभावग्रहस्यैव दूषकत्वासिद्धौ तद्द्दष्टान्तत्वानुपपत्तः, सिद्धौ वा तस्योक्तरूपबाधाऽनन्तर्भावे षष्ठहत्वाभासत्वापत्तेः । उक्तरूपश्च बाधः पक्षाभिमतांवषयकसाभ्याभावबुद्धौ सत्यामसत्यां वा ? आद्येऽनैकान्तिकमेव, साध्याभावसामानाधिकरण्यग्रहात् । अन्त्ये लिङ्गत्वाभिमत साध्याभावव्याप्ययोर गृह्यमाणविशेषतया सत्प्रतिपक्ष एच दूषणं, न बाधः । न च तुल्यबलत्वं तन्त्रम्, गमकताप्रयोजकरूपसम्पत्तेरेव बलत्वेन तस्य द्वयोरपि ज्ञानत्वात् । प्रतिरोध्येति । प्रतिरोध्यं स्थापनानुमानं तस्य व्याप्तिग्राहकं यत्प्रमाणं तस्य प्रत्यक्षेण द्वितीयानुमानमूलव्याप्तिग्राहकेन बाधः, तत्सत्त्वे तस्यानुद्भा वनात् - प्रतिरोधानुद्भावनात, अन्यथा हनिबलतया सत्प्रतिपक्षत्वानुपपत्तेरिस्यर्थः । ननु द्वितीयानुमानमूलव्याप्तिग्राहकं यत्प्रत्यक्ष तद्विरोधि प्रथमानुमानमूलव्याप्तिग्राहकं प्रत्यक्षान्त रमस्ति, [१]तथाच
न्यायलीलावतीप्रकाशविवृतिः
र्षस्य विषयतानियामकत्वं किन्तु व्याप्तिपक्षधर्मत योरिति नोपनीतस्य विषयत्वमिति सारम् । अनुमित्यलाधारणत्वादिति ध्वनितम् । वस्तुतः प्रत्यक्षे ग्राह्याभावप्रत्यक्षत्वेन प्रतिबन्धकता शब्दस्तु मानान्तरं न भवत्येवेति ग्राह्याभावज्ञानत्वेनानुमितावेव प्रतिबन्धकत्वं वाच्यं, तच्च न व्यभिचारसांकर्यादिति रहस्यम् । षष्ठेति | हेत्वाभासपञ्चत्ववादिन इति शेषः । सत्प्रतिपक्ष एवेति । त्वन्मत इति शेषः । ननु परस्परव्याप्तिग्राहकप्रामाण्यासिद्धिर्न स्वतो दूषिका विरोध्यविषयत्वात्, न चान्यतरव्याप्त्यनिश्चय एव दोषस्तत्रापि ग्राहकप्रमाणस्य सत्प्रतिपक्षतयोपजीव्यत्वादित्यरुचेराह तथात्वेरीति | दुषकत्वेऽपीत्यर्थः । विरोधिसामग्रीत्वेन शब्दादिसाधारणेन प्रतिबन्धकत्वादि
- ↑ अत्र तथात्वेपीति विवृतिकारसम्मतपाठो युक्तः ।