सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/६८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६०३
व्यायलीलावतीकण्ठाभरण-लविवृतिप्रकाशोद्भासिता


मानुपपत्ते: । अत एव हेतुपदमपि साध्यस्वरूपमात्रवत् साधन-


न्यायलीलावती कण्टाभरणम्

व्यत्यासेनावयवकल्पनापत्तेरित्यर्थः । अत एवेति । लाध्यस्वरूपोप-

न्यायलीलावतप्रकाशः

ब्दज्ञानविषयकवाक्यत्वम्, हेत्वभिधानप्रयोजकी भूतजिज्ञासाजनकवाक्यत्वं वा । अतएवेति । लाध्यनिर्देशान्तरं हेतोराकाङ्क्षा नतु तद्गमकत्वे पीत्याकाङ्क्षाक्रमनियमादेवेत्यर्थः । साध्य रूपमात्रेत्यत्र मात्रपदेन निगमनप्रयोजकाकाङ्क्षानिवृत्तिः, साध्यस्य विषयत्वेऽपि तदुपरक्त्तसाधनस्यापि विषयत्वात् । साधनस्वरूपमात्ररुयेतिमात्रपदेन हेतुगमकत्व विषयकाकाङ्क्षानिवृत्तिः । अनुमितिहेतुतृतीयलिङ्गपरामर्षप्रयोजकशाब्दज्ञानकारण साध्याविषयशाब्दधीजन कहेतुविभक्तिमच्छन्दत्वं हेतुलक्षणम् । यद्यपि हेतावुक्त्ते कक्षस्व गमकत्वमित्याकाङ्क्षायां व्याप्तिपक्षधर्मतयोरुपदर्शनप्राप्तौ कथं विनिगमना यतो नोभयजिज्ञासा, न वा प्रथमं पक्षधर्मताजिज्ञाला, तथापि वह्निव्याध्यधूमवानयमिति परामर्षोऽनुमितिजनक इति व्याप्तेर्विशेषणत्वेन प्रथमो-

न्यायलीलावतीप्रकाशविवृतिः

सामानाधिकरण्यविषयत्वमिति न्यूनविषयतेति वाच्यम् । पुरुषश क्त्तिपरीक्षार्थमन्वयव्याप्तिमभ्युपगम्य सिद्धसाधनप्रहपरीहारेणैव सम्बन्धकथायां तादृशोपनयेऽतिव्याप्ति सम्भवात् । वस्तुतः सत्यन्तं न्यायावयवपरम्, अन्यूनानतिरिक्तपदयोश्च विकल्पेनान्वये लक्षणद्वयमेवेदम् । यदि पूर्वोदाहृतोपनयो न स्वीक्रियते इति सारम् । पदानां प्रत्येकमेव तादृशज्ञानजनकत्वादतिव्याप्तिरिति वाक्यपदं तादृशफलोपहितसमुदायपरम् । हेत्वति । हेत्ववयवेत्यर्थः । तेन नोदासीनातिव्याप्तिः । अनुमितीति । अत्र कारणेत्यन्तं धीविशेषणमुदासीनातिव्यातिवारणाय, तञ्च न्यायजन्यज्ञान प्रयोज केत्यर्थकम् । निगमेनैकदंशेऽतिव्यातिवारणाय साध्यविषयकेति ।साध्यविषयधीजनकनियतान्यत्वं च तदर्थोऽतो न प्रत्यक्षस्पर्शाश्रयत्वादित्यत्राव्याप्तिः । उदाहर णैकदेशेऽतिव्यप्तिवारणाय हेतुविभक्तिमदिति । शब्दपदं तु सामान्यवत्त्वे सतीत्यादावव्यातिवारकं शब्दपदेन हेतुविभक्त्यर्थान्वितार्थक त्वस्य लाभादिति । पुरुषस्य दण्ड इति ज्ञानानन्तरं दण्डी पुरुष इतेि-