सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/६२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४६
न्यायलीलावती


च नयनमपि करणम्, एकत्रोभयनिषेधादिति । नयनं भूतल एवा-


न्यायलीलावतीकण्ठाभरणम्

कसत्वान्नयनमपि करणं नयनमेव कारणं तत्र स्यादित्यत आह न चेति । शुक्तौ रजतत्वोपलब्धेस्तदभावानुपलम्भ इति भ्रमानुरोधादनुपलम्भस्य कारणत्वं वाच्यम्, रजतत्वाभावानुपलम्भश्च शुक्तित्वा-

न्यायलीलावतीप्रकाशः

व्यापारस्य तृतीयलिङ्गपरामर्षादेः कारकान्तरचरमभावित्वेन कारणत्वं तथैतस्यापि स्यात् । कारकान्तरचरमभावित्वं च नोत्पद्यमानत्वं किन्तु विद्यमानत्वमात्रम्, तच्चानुपलम्भेऽपि विद्यत एव । न चैवं सर्वेषां करणत्वप्रसङ्गः, निमित्तसमावेशेन संज्ञासमावेशस्येष्टत्वात् । यत्तु व्यापारवदिति कारकस्यैव विशेषणम् । तन्न । व्यापारविशिष्टस्यैव कारकतया वैयर्थ्यापत्तेः । न च व्यापाराभावाचानुपलब्धिः करणम्, उक्तमात्रस्यैव करणतानियामकत्वे व्यापारवत्वस्य विशेषणत्वे गौरवात् । ननु चाभावप्रमायामिन्द्रियमपि करणं तदन्वयाद्यनुविधानादित्यत आह - न चेति । अभावप्रमाया इन्द्रियजन्यत्वेन

न्यायलीलावतीप्रकाशविवृतिः

ङ्गपरामर्षपरं दृष्टान्तलाभायोपात्तमिति भावः । व्यापारद्वारा कारकान्तरचरमभावित्वं कर्मादेरपीत्यतिव्याप्तिरित्याशंक्य निराकरोति नचैवमिति । विशेषणमिति । यथाश्रुत्तमेवेति भावः । अन्यथा प्रथमपक्षभेदानुपपत्तेः । व्यापार विशिष्टस्येति । यद्यपि निर्व्यापारानुपलब्धेरपि कारकत्वाभ्युपगमात्तद्विशेषणं व्यावर्त्तकं भवत्येव, तथापि तथात्वेऽपि वैयर्थ्यमेव, व्यावर्तनीयकारकान्तराव्यावर्तकत्वात् । यथोक्तविवक्षया तु सिद्धनः समोहितमिति भावः । उक्तमात्रस्यैवेति । यावत्कारकान्तरव्यापारचरमभावित्वस्यैवेत्यर्थः । न च पूर्वं व्यापारविशिष्टस्यैव कारकत्वमुक्तमिदानीं तु निर्व्यापारस्यापि कारकत्वविशेषकरणत्वस्वीकारे विरोधः । पारिभाषिककरणत्वस्य कारकत्वाव्याप्यत्वात् । सामान्यविशेषभावस्वीकारस्तु कारकत्वकरणत्वयोर्व्यापारविशेषवत्कारणं करणमिति लक्षणाभिप्रायेणेति भावः । अभावप्रमाया इति । यद्यप्यनुपलब्धेन्द्रिय सहकारितया न परोक्षज्ञान प्रयोजकत्वं क्कापि द्द्ष्टं तथा प्राङ्नास्तितास्थले तदपि दृष्टमेवेत्युभयप्रयोज्यत्वे प्रत्य-