त्तिर्वा तन्म्यूनता वा । नायः । अनुमानादेव तत्सिद्धेः । न द्विती-
न्यायलीलावतकण्ठाभरणम्
शङ्कानिवृत्तिरित्यर्थः । तन्न्यूनतेति । साध्याभावकोटिकशक्तोत्कटकोटिकत्वनिवर्त्तनं वा तर्कफलमित्यर्थः । अनुमितिकथने तवैतत् सर्वमिति तर्कों निष्फल एवेति विकल्पत्रमनिरास इत्याह नाद्य इत्यादिना अनु-
न्यायलीलावतीप्रकाशः
भयकोटौ साध्याभावकोटिगोचरजिज्ञासानिवृत्तिरित्यर्थः । ननु साध्याभावनिश्चयोऽनुमिति प्रतिबध्नाति । ननु तजिज्ञासापि, तत्कि तद्विच्छेदेन, मैवम् । साध्याभावविषयत्वस्यैवानुमिति प्रतिबन्धकवयाधिकस्य व्यर्थत्वात् । तथा च साध्याभावजिज्ञासासत्त्वेऽपि नानुमितिः स्यादतस्तन्निवर्त्तनमेव तर्कफलमिति भावः । शङ्केति । साध्यसाध्याभावयोस्तुल्यवत्संशयनैकत्र प्रमाणप्रवृत्तिः सम्भवतीति तश्रीिवर्त्तनमित्यर्थः । तन्न्यूनतेति । साध्याभावकोटावनिष्टप्रसञ्जनेन तत्को टेहनत्वमित्यर्थः । अनुमानादेवेति । वस्तुतो विरोधिजिज्ञासा न ज्ञानमात्रप्रतिवन्धिका, घटजिज्ञासुना चक्षुरुन्मीलनानन्तरं पटस्यापि ज्ञानात । नाप्यनुमितेः । तृतीयलिङ्गपरामर्थानन्तरं विरोधिजिवासयाऽनुमितौ विलम्बाभावात् ।
अथ साध्यैककोटिका जिज्ञासाऽनुमितिहेतुः । सा तर्केण कोट्यन्तरेऽनिष्ठमुपदर्शयताऽनिष्टजिज्ञासा प्रतिबन्ध जन्यते । सति तृतीयलिङ्गपरामर्षे तादृशजिज्ञासाया अन्वयव्यतिरेकाभावा-
न्यायलीलावती प्रकाशविवृतिः
प्रमाणं तथापि न्यायमतानुसारेणेदम् । वस्तुतोऽनुमित्यात्म केऽपि तस्मिन् परोक्षशानाद्यात्मकताइशारोपजन्यत्व मस्त्येवेत्युभयसाधारणमेवेदं कार्यतावच्छेदकप्रतीत्पप्रतीति विकल्पदोषादम्य इत्युक्तम् । साध्याभावविषयत्वस्येति । यद्यपीदं संशये अतिप्रसक्तं तथापि संशयभिन्नोक्तविषयत्वमेव विरोधितावच्छेदकं लाघवात, कामिनीजिज्ञासादिप्रतिबन्धकत्वानुरोधाच्चेति भावः । नन्वेवमन्योन्याश्रयः विरोधिजिज्ञासानिवृत्तावनुमानप्रवृत्तिनुमानेन च जिज्ञासानिवृत्तिरित्यत आह ---- वस्तुत इति । कामिनीजिज्ञासादेस्त्वनन्यगत्या तत्वेनैव प्रतिबन्धकत्वमिति भावः । अनुमाने फलीभूतनिश्चयपरत्वे उक्तान्योन्याश्रयभया