सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/५९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५१३
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता

न्नीयते च बाधव्यभिचारानुकूलतर्का भावप्रतिकूलतर्कैः, यथा दहनेतरत्वं कृतकत्वे, प्रमेयत्वे कृतकत्वम् | मैत्रतनयत्वे शाकाद्याहारपरिणतिः । उपलभ्यमानस्पर्शत्वे चाक्षुषत्वमिति ॥ [ इति ] व्याप्तिः ॥


न्यायलीलावती प्रकाशः

साधनत्वश्च स्वव्याघातकत्वान्नोपाधिरित्यर्थः । बाधेति । बाधो हि पक्षाभिमत एव व्यभिचारः । तत्र चोपाधिरावश्यक इत्यर्थः । एतञ्च हेतुमति पक्षाभिमते द्रष्टव्यम्, धूमेन हदेऽग्निसाधने तदभावात् । व्यभिचारेति । यद्यपि व्यभिचारादेव तत्रागमकत्वनोपाध्युन्नयनं निष्फलत्वात् तथापि व्यभिचारिण्येकत्र साधने साध्यतदभावयोर्विरोधनावच्छेदकभेदं विना तदुभयसम्बन्धाभावादवश्यं साध्य सम्बन्धितावच्छेदकं रूपमुपेयम्, तदेव तत्रोपाधिः । अत एव व्यभिचारे चावश्यमुपाधिरित्याचार्याः । अनुकूलेति । ‘तदसत्त्वे' व्याप्स्यसत्त्वे व्यभिचारात्तत्र चोपाधेरावश्यकत्वादित्यर्थः । अत्र क्रमेणोदाहरणान्याह -– यथेति । तेजोऽनुष्णं कृतकत्वादित्यत्राऽतेजस्त्वं बाधोन्नीत उपाधिः । शब्दो नित्यः प्रमेयत्वादित्यत्र व्यभिचारदर्शनात् कृतकत्वमुपाधिः । स क्ष्यामो मैत्रतनयत्वादित्यत्र शाकपाकजकत्वमुपाधिः । शब्दो नित्यः प्रमेयत्वादित्यत्र व्यभिचारदर्शनात् कृतकत्वमुपाधिः । बायूरूपवानुपलभ्यमानस्पर्शाधिष्ठानत्वादित्यत्र प्रतिकूलतर्कोन्नेयश्चाक्षुषत्वमुपाधिः । प्रतिकूलतर्कश्च यद्ययं रूपवान् स्यात् द्रव्यत्वव्याप्य चाक्षुषजातिमान् स्याऽदित्येवंरूपः ।

न्यायलीलावतीप्रकाश विवृतिः

स्याप्रतिबन्धकत्वेण्यदोषः । तदेव तत्रोपाधिरिति । तथा चोद्भावितव्यभि चार एव उपाधि बिना दुरुपपाद इति तत्र व्यभिचारोन्नयनमिति भावः । अत्रैव वृद्धसम्मतिमाह--- अत एवेति । तत्फक्किकया हि व्यभिचारव्याप्यत्वमुपाधेर्दर्शितं तत्प्रदर्शनं च तदैव सफलं यदि व्यभिचारेणोपाध्युन्नयनमिति भावः । अनुकूलतर्कस्य पूर्वप्रक्रान्तत्वातू प्रसङ्गत्या मूले तर्कविचारः । ननु व्याप्यस्येत्यादि मूले नास्ती-