न्यायलीलावतीप्रकाशः
भ्यामेव व्यापकत्वग्रहोऽतिप्रसङ्गात् किन्त्वनुकूलतर्कात् स च नास्त्येव । अत एव पर्वतेतरद्रव्यत्वादिकमपि नोपाधिः पक्षधर्मावच्छिन्नसाधनावच्छिन्नसाधनावच्छिन्न साध्यव्यापकोपाध्योरपि साधनस्य साध्यव्यभिचारित्वं विशेषणाव्यभिचारिणि साधने विशिष्टव्यभिचारस्य विशेष्यव्यभिचारित्वनियमात् । अत एव नार्थान्तरं विशेषणावच्छिन्न व्यभिचारित्वेन हि ज्ञाने साधने विशिष्टव्यभिचारः सिध्यन् विशेष्यव्यभिचारमादाय सिद्ध्यति पक्षधर्मतावलात् । अन्यथा प्रतीतेरपर्यवसानात । सम्प्रदायावदस्तु यद्यावृत्त्या यस्य साधनस्य साध्यं व्यावर्त्तते स धर्मस्तत्र साधने उपाधिः । यथाऽग्निमत्त्व आर्द्रेन्धनप्रभवत्वम् । एवं भावत्वण्यावृत्त्या प्रध्वंसे जन्यत्वानित्यत्वयोः स म्बन्धो व्यावर्त्तमानः पक्षधर्मताबलाद नित्यत्वाभावमादाय सिघ्घति । यथा वायावुद्भूतरूपवत्वं व्यावर्त्तमानं द्रव्यत्वे सति प्रत्यक्षत्वं निर्वर्त्तयत् प्रत्यक्षत्वाभावमादाय सिद्ध्यति । अत एव बाधानुनीतपक्षेतरत्वस्यानुपाघित्वं स्वव्याघातकत्वेन तद्यतिरेकस्य साध्याच्यावर्त्तकत्वादिति संक्षेपः । अत एवेति । शब्दोऽनित्यः कृतकत्वादित्यत्र सा-
न्यायलीलावती प्रकाशविवृतिः
इति । एतेन घटरूपं प्रत्यक्षं प्रमेयत्वादित्यत्रापि वहिर्द्रव्यत्वावच्छिन्नसाध्यव्यापकत्वमुद्भूतरूपवत्त्वमुपाधिरविकल इति विभावनीयम् । स च नास्त्येवेति । इदमुपलक्षणम् । अनुमानमात्रोच्छेदकत्वलक्षणतर्क पराघातोऽपि द्रष्टव्यः । अन्यथा सन्दिग्धोपाधेरपरिहारात् । विशेषणाव्यभिचारिणीति । विशेषणवतीत्यर्थः । पक्षघर्मताबलादिति । यद्यपि साध्यस्य पक्षसम्बन्धमात्रं तद्लात् सिद्ध्यति न तु व्यापकतावच्छेदकानाश्रयोऽपि प्रकृते च विशेष्यव्यभिचारविशिष्ट व्यभिचारयोर्भेदात्तदनाश्रयत्वमेव विशेषव्यभिचारस्य तथापि विशेषणवति विशिष्टव्यापकव्यभिचारित्वादित्येवं विशेष्यव्यभिचारानुमितौ तात्पर्यम् । अत एव विशेषणवत्त्वेत्यादिविशेषणं पूर्वे दत्तमस्माभिरन्यथा यथाश्रुत एव सामञ्जस्यादिति सत्प्रतिपक्षोत्थापकतापक्षमालम्ब्य लक्षणमाह - यव्घावृत्तेति । क्वचिदपि साधनवतीति भावः । तेन पक्षवृत्तिरप्युपाधिः । यदि च करका पृथिवी कठिन संयोगवत्वादिस्यत्र साधनव्यापक मनुष्णाशीतस्पर्शवश्वमुपाधिस्तदा पक्षसाधनवदन्यतर-