असंसर्गाग्रहस्य बाधिताबाधितव्यवहारकारणत्वे व्यवहारवैचित्र्यं
संवादित्वासंवादित्वरूपं न स्यादिति संवादिव्यवहारः संसर्गवि-
न्यायलीलावतीकण्ठाभरणम्
अबाधितो व्यवहारः संसर्गाधीन इति लिङ्गादीनां संसर्गव्यवहारजन कत्वात् प्रामाण्यमिति शङ्कते-- असंसर्गेति । संसर्मस्य वास्तवत्वावास्त
न्यायलीलावतीप्रकाशः
नुमानाभास उदाहृतः, यावता तत्रापि शक्यते वक्तुं यद्यसंसर्गाग्रहात्संसर्गव्यवहारः तदा संसर्गज्ञानोच्छेदप्रसङ्गः । न च बाधाबाधाभ्यां व्यवस्थाबाधस्य विपरीतप्रमात्वे तस्यापि विशिष्टज्ञानत्वे मानाभावात् । अत्रेच्यते--प्राथमिक सत्यरजतप्रत्यक्षस्थले रजतत्वस्य न स्मृतिः प्रागननुभवात् ग्रहणं च तस्याक्षसंयुक्त योग्यविशेष्यरजतसमवायेन भवद्धर्मधर्मिविषयक मेकमेवोत्पद्यते विशेष्यभानसामग्यून्तर्भूतत्वाद्विशेषणभानसामग्या: अगृहीता संसर्गधर्मधर्मिविष ये कैकज्ञान विषयत्वमेवं च परदर्शने विशिष्टत्वमित्यनुभवसिद्धं यथार्थप्रत्यक्षस्य विशिष्टज्ञानत्वमित्यनुमित्याधुच्छेद उक्तः । अथ वन्हिसंशयानन्तरं यत्र धूमासंसर्गाग्रहाद्वहयर्थिप्रवृत्तिर्दृश्यते तत्र यदि वह्रय संसर्गाग्रहस्तस्य व्यापारः स्यात्तदा धूमासंसर्गाप्रहात्प्रागपि प्रवृत्यापत्तिः संशयानुरोधेन प्रागपि सत्वात् । तस्मान्निर्वह्नौ तस्य वह्नयनुमितिद्वरमिति नानुमित्युच्छेदः । किञ्च पर्वतेनेन्द्रिय सन्निकर्षे व-
न्यायलीलावतीप्रकाशविवृतिः
भाति : ये (सा?) चेति । तथा च यथा प्रवृत्तावसंसर्गाग्रहरूपा सामग्री तद्धेतोरिति न्यायात् तथानुमितावपीति न सामग्री वैकल्प्यमन्यथा तु प्रवृत्तिकारणतयैवान्यथाख्यातिसिद्धिरिति भावः । एवं शाब्देऽपि योग्यतासंसर्गाग्रह एव सामग्री त्वदीयेति ध्येयम् ।
न च बाघेति । यद्यपि नैतत् प्रत्यक्षासाधारणमनुमितिशाब्योरप्येवमवच्छेदादिति नात्रेयं शङ्का युक्ता । तथापि संसर्गज्ञानमात्रोच्छेदो यदि मूलकृतोच्यते तदैतदपि समाधानं शक्येतातो विशेषोच्छेद उक्त इत्यभिसन्धिः । मानाभावादिति । तथा च तस्याप्यसंसर्गाग्रहात्मकत्वे बाधकत्वानुपपसेरिति भावः । वन्यनुमितिद्वारमिति । यद्यपि अयं पूर्वपक्षो न मीमांसकस्य तेना-