तत्राविद्या संशयविपर्ययस्वमानध्यवमायलक्षणा । तत्र न तावत्संशयस्योभयविधिर्विषयः । पुरुषः स्थाणुश्चेति समुच्चयप्रसङ्गे
विकल्पानुपपत्तेः । नाप्युभयनिषेधः । स्थाणुर्न पुरुषो नेतिमतीतिप्रसङ्गात् । नाप्यन्यतरनिषेधः । स्थाणुरेवेत्यवधारणप्रसङ्गात् ।
न्यायलीलावतीकण्ठाभरणम्
वा, इच्छासाक्षात्कारणात्मविशेषगुणवृत्तिगुणत्व साक्षायाप्यजातिमत्वं वा । सुचीकटाहन्यायेन चरमोक्तामध्यविद्यां विभजते – तत्रेति । विबयापेक्षद्वारा संशयमाक्षिपति-- तत्र न तावादति । उभयविधिरिति । उभयोः संशयको ट्यां विधिरित्यर्थः । न च विरुद्धोभयविषयत्वेन समुच्चयाद्भदस्तथापि तर्केऽतिव्याप्तिः । उभयनिषेध इति । प्राधान्येनेति शेषः । अन्यतरेति । एकैकनिषेध इत्यर्थः । पुरुषत्वनिषेधपक्षे दोषमाह - स्थाणुरेवेति ।
न्यायलीलावतीप्रकाशः
रसङ्केतितत्वस्यापि विवक्षितत्वे तत्रातिव्याप्तेः, द्वादशेऽहनि पितानाम कुर्यादिति सामान्यतस्तस्यापीश्वरसङ्केतविषयत्वात् । अत्राहु: - पर्यायशब्दाभिधानेन बुद्धित्वं प्रवृत्तिनिमित्तं लक्षणमभिमतम् । न चेदमसिद्धं जानामीत्यनुगत बुद्धिवद्यत्वात् विशिष्टज्ञान कारणतावच्छेदकतया निर्विकल्पकसविकल्पकलाधारणस्य तस्यावश्यकत्बाञ्च । आवद्येति । विशेष्यावृत्त्यप्रकारकं ज्ञानं विद्या यद्यत्रास्तिं तत्र तस्य ज्ञानं वा । तद्भिनं ज्ञानमविद्या । संशयमाक्षिपति-तत्रेति । उभय कोटे र्विधिः। विधानमित्यर्थः पुरुष इति । न च मिथो विरुद्धोभयावषयत्वेन समुच्चयाद्भेद: समुच्चयस्य परस्पराविरुद्धावषयत्वादिति वाच्यम्, तथापि तर्केऽतिव्याप्तः । 'अन्यतरनिषेधः' एकैकांनषेध इत्यर्थः । स्थाणुरेवेति । ए-
न्यायलीलावती प्रकाशविवृतिः
वाच्येऽतिव्यातिरिति जातिधावनामात वदन्ति । विशिष्टेति । यद्यपि न ज्ञानत्वं कारणतावच्छेदकमपि तु विशेषणज्ञानत्वं तथापि ज्ञानत्वासिद्धौ तदपि दुर्ज्ञेयमित तदावश्यकत्व बाधकाभावाज्जातत्वमिति भावः । विशेष्येति । निर्विकल्पकसङ्ग्रहाय नञगर्भता । स्मृतिसंग्रहायानुभवपदमपास्य ज्ञानपदम् । विरुद्धाप्रकारत्वं स्वप्नभिन्नत्वं च विशेषणमंतो नातिव्याप्तिः । संशयमिति । संशयलक्षणमित्यर्थस्ते नोपसंहारे संशयव्युत्पादनेन न विरोधः । करणभ्रमनिरासायाह - विधानमिति । वैशिष्ट्थ्रमित्यर्थः। तर्क इति । धूमवानयं यदि धूमाभाववान् स्यात् बहि-