स्वयमनवगमात्मकत्वादनवगमात्मकत्वं च मोहमात्रो
पाप्रमाणमन्तरेणैषां बुद्धयादीनामसिङ्गता
अनुभूतिफलार्थिवादात्मा ज्ञः किमपेक्षते ॥ ९ ॥
वक्ष्यमाणेतरेतराध्याससिद्धयर्थमुक्तव्यतिरेकानुवाद
घटबुद्धेर्घटाचार्थाद्रष्टुर्यद्वविभिन्नता ।
अहम्बुद्धेरहंगम्याडुःखिनश्च तथा दृशेः ॥ १० ॥
द्धात्मस्वभावापेक्षया बुद्धेदव्र्यवधानं देहस्य पुनर्बुद्धयपेक्षत्वादिन्द्रियापेक्षत्वाञ्च ततोऽपि व्यवधानम् । घटादीनां पुनर्देशकालादिसन्निधानापेक्षत्वाद्वद्धयाद्यपेक्षत्वाञ्च देहादपि व्यवधानम् । नैवमात्मनो व्यवधानमस्ति व्यवहितं च प्रमाणगम्यं तस्मादात्मनोऽप्रमेयत्वं सिध्यतीत्यर्थः ॥ ९८ ॥
बुद्यादीनां व्यवहितत्वे स्वयमेव हेतुमाह स्वयमिति । यद्वा । व्यवहितानां प्रमाणाधीनसिद्धिकत्वे हेतुमाह स्वयमिति । अनवगमात्मकत्वादस्फुरणस्वभावत्वादित्यर्थः । अनुभूतिफलार्थित्वादिति । अनुभूतिरेव फलमनुभूतिफलं तद्भर्थित्वात् । स्वतस्तद्रहितानां प्रमाणाद्यपेक्षास्ति तस्माद्यवधानमित्यर्थः । नन्वात्माप्युपनिषत्प्रमाणमपेक्षत इत्याशङ्कय चित्स्वभावत्वाद्दज्ञाननिवृत्तिव्यतिरेकेण प्रमित्यन्तरं नापेक्षत इत्याह आत्मा झ इति ॥ ९९ ॥
आात्मानात्मनोरुक्तन्यायेनात्यन्तविविक्तस्वभावयोः संयोगसमवायतादात्म्यादिसम्बन्धासम्भवादन्तरेण च सम्बन्धं प्रकाश्यप्रकाशकभावायोगादाध्यासिकसम्बन्धो वाच्यस्तस्य चाध्यासस्य विद्यमानभेदयोस्तदग्रहपूर्वकत्वादुक्त एव व्यतिरेकः पुनविवक्षिताध्याससिद्धयर्थमनूद्यत इत्याह वक्ष्यमाणेति । दृश्याद्रष्टुरिवाहङ्कारदशायामकर्मकतया भासमानसाक्षिवेद्यादुखिनः साक्षिचैतन्यस्यापि व्यतिरेकः साधित इत्यर्थः॥१००॥