पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/९०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


नैष्कम्यैसिद्धिश्रन्द्रिकासहिता उत्पतिस्थितिभङ्गेषु कुम्भस्य वियतो यथा । नोत्पतिस्थितिनाशाः स्युर्बुद्धेरेवं ममापि च ॥ ७९ ॥ सुखदुःखतासम्बन्धानां च प्रत्यक्षत्वान श्रद्धामात्रग्राह्य सुखदुःखादिसम्बद्दां यया दण्डेन दण्डिनम् । राधको वीक्षते बुद्धिं साक्षी तद्वदसंहतः ॥ ४० ॥ एतस्माच्च हेतोर्धियः परिणामित्वं युक्तम् । येनैवास्या भवेद्योगः सुखकुम्भादिना धियः । तं विदन्ती तदैवान्यं वेति नातो विकारिणी ॥ १ ॥ सर्वस्मिन्निति । प्रमाणतन्निभेषु प्रमाणतदाभासेषु बुद्धिपरिणामेषु व्यभि चारेिषु तदनुयायिनः संविद्रपस्य साक्षिरूपस्य मम नोच्छित्तिः सम्भ वति । उच्छेदसाक्षित्वेनापि स्फुरणात्ततो मध्यतिरितं यन्मत्संम्बन्धि तया प्रतीयते तदुच्छिद्येत नात्मेत्यर्थः ॥ ७८ ॥ उक्तमेवार्थ दृष्टान्तेनोपपादयति उत्पत्तीति । बुद्धेरेवमिति । बुद्धेरु त्पत्यादौ ममोत्पत्यादिनस्तीत्यर्थः ॥ ७९ ॥ सुखदुःखादिपरिणामानामनात्मधर्मत्वमप्यनुभवसिद्धमित्याह सुख दुःखेति । सुखदुःखादेरहङ्कारसम्बन्धोऽहं सुखीत्यादिप्रत्यक्षसिद्धमि त्याह सुखदुःखादिसम्बद्धामिति । यथा दण्डेनासंहतस्तटस्थ एव सन्क श्चिद्राधकः साधको द्रष्टा दण्डिनं वीक्षते तद्वदयमपि साक्षी सुखादि धर्मविशिष्टां बुद्धिं सुखादिभिरसंहतस्तटस्थ एव सन्वीक्षत इत्यर्थः ॥८०॥ बुद्धेः परिणामित्वेनातीतानागतेहत्यानिति सूचितं क्रमद्रष्टत्वं कति पयद्रष्टत्वं च प्रपञ्चयति एतस्माच्चेति । यदा बुद्धिबहोन कुम्भादिनान्त रेण सुखादिना च सम्बद्धा सती कुम्भादिकं वेत्ति तदैव पटादिकं दुः खादिकं च न वेत्ति ततो बुद्धिर्विकारिणीत्यर्थः ॥ ८१ ॥