सर्वाकारां निराकारः स्वार्थोऽस्वार्था निरिङ्गनः ।
नित्रिकालत्रिकालस्यां कूटस्थः क्षणभडुराम् ॥७४॥
निरपेक्षाश्रय सापेक्षां पराचीं प्रत्यगाद्वयः ।
सावधिं निर्गतेयतः सर्वदेहेषु पश्यति ॥ ७५ ॥
दुःखी यदि भवेदात्मा कः साक्षी दुःखिनो भवेत्।
दुःखिनः साक्षितायुक्ता साक्षिणो दुखिता तथा ॥७६॥
पूर्वस्यैव व्याख्यानार्थमाह ।
नर्ते स्याद्विक्रियां दुःखी साक्षिता का विकारिणः ।
धीविक्रियासहस्राणां साक्ष्यतोऽहमविक्रियः ॥ ७७ ॥
एवं सर्वस्मिन् व्यभिचारिण्यामवस्खेवाव्यभिचारीत्यभवतो व्यवस्थापनायाह ।
प्रमाणतन्निभेष्वस्या नोच्छितिर्मम संविदः ।
मतोऽन्यदूपमाभाति यतत्स्यात्क्षणभङ्गि हि ॥ ७ ॥
स्व एवाथ यस्य स स्वार्थः । अनेन ममत्वेन गृहीतः पुत्रादिरर्थो यस्याः साऽस्वार्था । निरिङ्गनोऽपरिस्पन्दः ॥ ७४ ॥ ७५ ॥
दुःखादीनां साक्षित्वादप्यात्मनो न दुःखाद्याकारपरिणामो युक्त इत्याहः एतस्माच्चेति । ननु दुःख्येव साक्षी भवेदित्यत आह दुःखिन इति ॥७६॥
दुःखिनः साक्षित्वं कथमयुक्तमित्याकाङ्कायां तत्र हेतुरुच्यत इत्याह पूर्वस्येति । दुःखित्वं नाम विकारित्वम् । िवकारिणः साक्षित्वमनुपपवामम् । आत्मा च समस्तबुद्धिवृत्तिसाक्षी तस्मान्निरस्तसमस्तपरिणाम इत्यर्थः ॥ ७७
न केवलं युक्तिमात्रसिद्धमेतत्किन्तु विद्वदनुभवसिद्धमित्याह एवं