पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८६
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता


 शब्दाद्याकारनिर्भासाः क्षणप्रध्वंसिनीईशा ।
 नित्योऽकमदृग्गामैको व्याप्तोतीवधियोऽनिशम्॥६९॥
एवं च सात बुद्धेः परिणामित्वं युक्तम् ।
 अतीतानागतेहायान्यगपत्सर्वगोचरान् ।
 वेत्यामवन्न धीर्यस्मात्तेनेयं परिणामिनी ॥ ७० ॥
 अपश्यन्पश्यतीं बुद्धिमशृण्वन् शृण्वतीं तथा ।
 निर्यलोऽविक्रियोऽनिच्छनिच्छन्तीं च्याप्यलुप्तदृक्७१
 द्विषनतीमद्विषन्नात्मा कूप्यन्तीं चाप्यकोपनः ।
 निर्दू:खो दुःखिनीं चैव निःसुखः सुखिनीमपि॥७२॥
 अमह्यमानो मह्यनीं कल्पयनीमकल्पयन् ।
 स्मरनीमस्मरंश्चैव शयानामस्वपन्मुहुः ॥ ७३


तुमाह यत इति । एवंविशिष्टा बुद्धिवृत्तीर्नित्योऽक्रमदृक्परमात्मैक एव दृशा स्वरूपचैतन्येन व्याप्तोतीव यस्मात्तस्माद्यमात्मा समस्तद्वैतसंस्पर्शरहित इत्यर्थः ॥ ६९ ॥

 कस्तर्हि घटादिशानाकारेण परिणमत इत्यत आाह एवं चेति । आत्मनः समस्तद्वैतासंस्पशित्वे सति बुद्धेः परिणामित्वं युक्तमित्यर्थः । बुद्धेः परिणामित्वे हेतुमाह अतीतानागतेहल्यानिति । अतीताश्चानागताश्चेहत्याश्चातीतानागतेहल्यास्तान् । सर्वे च ते गोचराश्चेति सर्वगो चरास्तान् । बुद्धिरात्मवद्युगपद्यस्मान्न वेत्ति तस्मात्क्रमद्रष्टत्वादियं च परिणामिनीति क्रमवत्कतिपयसिद्धकार्यदर्शनान्यथानुपपत्त्या क्रमवत्कतिपयपरिणामः कल्प्यत इत्यर्थः ।॥ ७० ॥

 आत्मनः पुनर्दर्शनश्रवणादिविक्रियारहितस्य दर्शनश्रवणादिविक्रियावदशेषबुद्धिसाक्षित्वमपि सिद्धमित्याह ततश्धेत्यारभ्य श्लोकपञ्चकेन अपश्यन्निति ॥ ७१ ॥

 समक्षपरोक्षयोविषयभेदात्कोपद्वेषयोर्विशेषो द्रष्टव्यः ॥ ७२ ॥ ७३ ॥