पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९३
चतुर्थोऽध्यायः ।

स किं सकलसंसारप्रविविक्तमात्मानं वाक्यात्प्रतिपद्यत उत नेतीत्यत्र बूमः । कूटस्थावगतिशेषमात्रावात्प्रतिपते दण्डावसाननिष्ठः स्याद्दण्डसपॉ यथा तथा । नित्यावगतिनिष्ठं स्याद्वाक्याज्जगदसंशयम् ॥ ३ ॥ कुत एतत् । यस्मात् । पश्यनिति यदाहोचैः प्रत्यत्कमजमव्ययम् । अपूर्वानपरानन्तं त्वमा तदुपलक्ष्यते ॥ ३९ ॥


ननु भवत्वेवं बोधोत्पत्तिस्तथापि किं प्रपञ्चाद्रेदेन ब्रह्मावबोध्यत उताभेदेन । आद्येऽद्वैतव्याघातो द्वितीये च सप्रपञ्चत्वमित्याशङ्क प्रपञ्चस्यात्मन्यविद्याध्यारोपितत्वान्न ततो भेदेन नाप्यभेदेनासी बोध्यते किन्त्वन्वयव्यतिरेकाभ्यां भावपरिहारेण तावन्मात्रतयेति दृष्टान्तेन दर्शयति स किमित्यादिना । कूटस्थावगतिशेषमात्रत्वात्प्रतिपत्तेरिति । कूटस्थावगतिरेव यथा शिष्यते तावन्मात्रैव प्रतिपत्तिर्न पुनः प्रपञ्चभावाभावावलम्बिनीत्यर्थः । दण्डावसानानिष्टः स्यादिति । दण्डरूपेणावसानं पयैवसानं तदेव निष्टा काष्टा यस्य दण्डे परिकल्पितसर्पस्य स तथोक्तः । नहि तत्र सर्पस्य दण्डे भावरूपता बाध्यत्वात् । नापि तत्राभावः कल्पितसर्पस्य प्रतियोगित्वेन काप्यभावात् । तदेवमन्वयव्यतिरेकाभ्यां भावाभावपरिहारेण यथा सर्पस्य दण्डतावन्मात्रत्वं तथा जगतोऽप्यचगतिरूपब्रह्ममात्रत्वमित्यर्थः ॥ ३८ ॥ उत्तेऽर्थे हेतुपरत्वेनोत्तरश्लोकमवतारयति कुत एतदिति । यस्मादिति । अयं शब्दस्त्वमा तदुपलक्ष्यत इत्यनेन सम्बध्यते । “यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति न हि द्रष्टुईष्टेविपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्वितीयमस्ति ततोऽन्यद्विभक्तं पश्येदि'ति यन्निरस्तसमस्तद्वैतं कृटस्थदृष्टिमात्मानं सुषुप्यवस्थायां दर्शयति तदेवापूर्वादिलक्षणं वस्तु