पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७८
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता

षीति चेच्छूवणादावेव सम्पादयिष्यामः । कथम् । प्रसंख्याने श्रतावस्य न्यायोऽस्वाग्रेडनात्मक ईषच्छतं सामिश्रुतं सम्यक्श्रुत्वावगच्छति ॥ १२५ ॥ ननु प्रसंख्यानविधिमनभ्युपगच्छतः पारमहंसी चर्या बौद्धादिचर्यावदशास्त्रपूर्विका प्राप्तोति ततश्वारूढपतितत्वं न स्यादशेषकर्मणां च निवृतिर्न प्राप्तोतीति । उच्यत ।


पाततोऽधिगतशब्दयुक्तीनामावृत्तिव्यतिरेकेण सम्यक्स्वरूपावधारणाभावादावृत्तेरुपयोगो न तु श्रवणादिसाध्यविज्ञान इति परिहरति अथैवमित्यादिना ॥ १२५ ॥ ननु मुमुक्षोर्नित्यनैमित्तिकविधिप्रापितकर्मप्रवृत्तीनामनभ्युपगमात्प्रसंख्यानविध्यनभ्युपगमाञ्च वैधस्य प्रवृत्त्यन्तरस्याप्यभावात्तदर्थतया नित्यनैमित्तिककर्मपरित्यागस्य वक्तुमशक्यत्वात्पाषण्डचर्यावन्निमूलैव परमहंसचर्या स्यादिति शङ्कते नन्विति । उत्पन्नविवेकेनानुष्ठितस्याचारस्याशास्त्रीयत्वे को दोष इत्याशङ्कयाह ततश्चेति । सकलश्रुतिस्मृतिपुराणेषु प्रसिद्धमारूढपतितत्वं न सिध्यतीत्यर्थः । अारूढपतितत्वं च स्यादिति पाठे विधिपरिप्रापितसकलकर्मपरित्यागादारूढपतितत्वं स्यादित्यर्थः । किंच प्रसंख्यानविध्यनभ्युपगमे नित्यनैमित्तिककर्मनिवृत्तिर्न सिध्यतीत्याह अशेषेति । प्रसंख्यानविध्यभ्युपगमोऽनवरतमनन्यचित्ततया ज्ञानाभ्यासात्तद्विरुद्धनित्यनैमित्तिककर्मणां निवृत्तिर्भवति तद्नभ्युपगमे तु यावज्जीवमग्हिोत्रमित्यादिश्रुतिचोदितकर्मणोऽनुष्टयत्वात्सर्वकर्मसंन्यासस्यावसर एव नास्तीत्यर्थः । एतदुत्तरत्वेन श्लोकमवतारयति उच्यत इति । त्वम्पदार्थविवेकाय श्रवणादिविधेरभ्युपगमात्तदङ्गत्वेन च सर्वकर्मसंन्यासस्य श्रुतिस्मृत्योविहितत्वान्नोक्ताशास्त्रीयत्वा-