पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११
प्रथमोऽध्यायः ।

अकर्वतः क्रियाः कास्या निषिडाख्यजतस्तया ।
नित्यनैमितिकं कर्म विधिवञ्चानुतिष्ठतः ॥ १० ॥
किमतो भवति ।
 काम्यकर्मफलं तस्माद्देवादीमं न ढौकते ।
 निषिद्धस्य निरस्तत्वान्नारकीं नैयधोजनिम् ॥ ११ ॥


क्रियत इत्युत्तरश्लोकसन्दर्भस्य तात्पर्यमाह प्रतिज्ञातेति । तत्र पूर्वपक्षो द्विविधः । केचिद्यथावस्थितात्मविषयं ज्ञानमिच्छन्ति केचिन्नेच्छन्तीति । तत्रैतावदेवंविधं ज्ञानमभ्युपगम्यापि कर्मेव मोक्षसाधनमिति मन्यन्ते तन्मतप्रदर्शनायाभ्युपेयैवमुच्यत इत्यतः प्राक्तनो ग्रन्थ इत्याह तत्र ज्ञानमिति । ज्ञानिनोऽपि यावज्जीवादिश्रुतिचोदितकर्मणामकरणे प्रत्यवायहेतूनामवश्यानुष्ठेयत्वात्तैरेव मोक्षसिद्धेर्विद्यमानमपि ज्ञानमकिंचित्करमित्याह मुक्तरिति एव कर्मभ्यो मोक्षस्य सिद्धत्वाद्रह्मज्ञानम। केवलेभ्य नर्थकं विद्यमानस्याप्यकिंचित्करत्वादिति भाट्टाः प्रतिपेदिर इत्यर्थः । कर्मणामनित्यफलसाधनानां कथं नित्यमोक्षसाधनत्वमिति शङ्कते कथं चेदिति । स्वरूपावस्थानलक्षणाया मुक्तरसाध्याया अपि प्रतिबन्धनिरोधात्सिद्धिं संभावयाम इत्याह श्टाण्विति ॥ ९ ॥

 संसारस्याविद्याहेतुत्वमुपगच्छतापि कर्महेतुत्वस्य “पुण्यः पुण्येन कर्मणा भवति पापः पापेन' “कर्मणा बध्यते जन्तुरि'त्यादिश्रुतिस्मृतिभ्योऽवश्याश्रयणीयत्वात् काम्यप्रतिषिद्धकरणाविहिताकरणलक्षणनिमित्तपरिहारेण नैमित्तिकस्य तस्य स्वरूपावस्थानप्रच्युतिलक्षणस्य परिहारात्स्वरूपावस्थानलक्षणा मुक्तिशनं विनापि सिध्यतीत्याह अकुर्वत इति । मुक्तिर्भवतीति शेषः ॥ १० ॥

 अतः काम्यादिवर्जनादिसाधनात्स्वरूपावस्थानलक्षणा मुक्तिः केन द्वारेण भवतीति पृच्छति किमत इति । देवादि देवत्वादिफलं काम्यकर्मत्यागिनमिमं न ढौकते न स्पृशति निमित्ताभावान्निषिद्धस्य निरस्त-