पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता


परुषार्थहेतोरवशिष्टत्वात्तदभिव्याहार
 दन्दहीत्यात्मनो मोहं न कर्माप्रतिकूलतः ॥८ ॥
प्रतिज्ञातार्थसंशुद्धयर्थ पूर्वपक्षोक्तिस्तत्र ज्ञानमभ्युपगम्य
 मुतेः क्रियाभिः सिद्यावाज्ज्ञानं तत्र करोति किम् ।
 कथं चेच्छ्णु तत्सर्व प्रणिधाय मनो यथा ॥ ९ ॥


तमाश्रयोऽपि स एवेत्याह स्वात्मेति । स्वश्चासावात्मा चेति स्वात्मा । स्वशब्देनारोपितात्मभावानहंकारादीन्व्यावर्तयति । स्वात्मा चासावनुभवश्धोति स्वात्मानुभवः स एवाश्रयो तथोक्ता । एवंभूता यस्याः सा साविद्या संसारस्य कर्तृत्वादिलक्षणस्य बीजमुपादानमित्यनर्थोऽनर्थहेतुश्च दशितः । इदानीं पुरुषार्थ च दर्शयति तन्नाश इति । आत्मनो मुक्तिनम तस्या अविद्याया निवृत्तिर्नान्या भावरूपा अभावरूपा वा साध्यास्तीत्यर्थः ॥ ७ ॥

 प्रतिज्ञातेषु त्रयाणामुक्तत्वाच्चतुर्थस्योपन्यासायोत्तरश्लोक इत्याह पुरुषार्थहेतोरिति । वेदावसानेति । तत्र सम्यग्ग्रहणमुपासनाज्ञाननिवृत्त्यर्थ सम्यग्ज्ञानाग्रेरविद्यातत्कार्यादेरशेषतो निवर्तकत्वलक्षणातिशयाभिप्रायेण दन्दहीतीति यङ्ग्लुक्प्रयोगः । आशुशुक्षणिसादृश्यं च समर्थस्यापि दाह्रैकदेशस्य प्रारब्धभोगादेरनिवर्तकत्वाभिप्रायेण । एवं मोक्षलक्षणपुरुषार्थसाधनं ज्ञानमेवेत्युक्तम् । तत्र कर्मणो ज्ञानेन समुचितस्यासमुचितस्य वा मुक्तिसाधनत्वं विस्तरेण निराचिकीर्घः संक्षिप्य तावत्प्रतिजानीते न कर्मेति । तत्र हेतुरप्रतिकूलत इति । निवत्र्येन बन्धेन स्वरूपतो विषयद्धारा वा जडस्याप्रमाणभूतस्य कर्मणो विरोधाभावादित्यर्थः ॥ ८ ॥  विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णय इतिन्यायाज्ज्ञानमेव मुक्तिसाधनं न कर्मेति प्रतिज्ञातार्थस्य संशुद्यर्थ निर्णयार्थे पूर्वपक्षोक्तिः