पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११७
तृतीयोऽध्यायः ।

ऽवबोधोऽहं ब्रहोति समभिजायते । तस्मादेव विज्ञानाकैवल्यमाझेोतीति तन्निराकरणायेदमुच्यते ।
 सामानाधिकरण्यादेर्घटेतरखयोरिव ।
 व्यावृतेः स्यादवाक्यार्थः साक्षान्नस्तत्वमर्थयोः ॥ ९ ॥
कुतोऽवाक्याथोंऽवसीयत इति चेत्तात्प्रतिपत्त्यर्थ विशेषणविशेष्ययोः सामथ्योंक्तिः ।
 निर्तुःखिावं त्वमर्यस्य तदर्थेन विशेषणात् ।
 प्रत्यक्ताच तदर्थस्य त्वम्पदेनास्य सन्निधेः ॥ १० ॥


साधनमपि न भवतीत्याह तस्मादिति । सामानाधिकरण्यादेरिति । यद्यपि नीलं महत्सुगन्ध्युत्पलमित्यादौ पदानां सामानाधिकरण्यस्य पदाथर्थानामन्योन्यविशेषणविशेष्यभावस्य च संसगात्मकवाक्यार्थपर्यवसाथित्वं दृश्यते तथा घटाकाशो महाकाश इत्यादौ पदसामानाधिक ण्यस्य पदार्थानां विशेषणविशेष्यभावस्य च पदार्थवाक्यार्थयोर्लक्ष्यलक्षणभावेनाखण्डार्थपर्यवसायित्वं न दृश्यते तथापि घटविशिष्टाकाशतदनवच्छिन्नाकाशयोः परस्परसंसर्गे विरोधादविरोधाय घटाकाशे परिच्छिन्नत्वांशं महाकाशे च महत्वधर्मे व्यावत्र्य लक्षणयाकाशस्वरूपमात्रपर्यवसायित्वं तत्र पदानां दृष्टमेवं तत्त्वमस्यादिवाक्यगतपदसामानाधिकरण्यात्तत्त्वमर्थयोविशेषणविशेष्यभावाञ्च संसर्गप्राप्तौ विरोधा तत्त्वमर्थगतदुःखित्वस्य तदर्थगतपारोक्ष्यस्य च व्यावृत्तेरखण्डैकरसस्य वस्तुनो वाक्यप्रतिपिपादयिषितस्य पदाभ्यां लक्षणाद्वाक्यादेवास्माकमवाक्यार्थप्रातिपत्तिसम्भवान्न तत्प्रतिपत्तेर्निदिध्यासनापेक्षेत्यर्थः ॥ ९ ॥

 नन्वेकपदस्य वाक्यस्याभावाद्वहूनां पदानामेकार्थत्वे पौनरुक्त्यप्रसङ्गादपुनरुक्तार्थानामखण्डार्थपर्यवसायित्वानुपपत्तेः संसर्ग एव वाक्यार्थ इत्याक्षिपति कुत इति । अन्यव्यावृत्तिमुखेनैकार्थपर्यवसायिनां पदानां लक्ष्यार्थाभेदेऽपि व्यवच्छेद्यभेदादपुनरुक्तार्थसम्भवात्सम्भवत्येववाक्यादवाक्यार्थप्रतिपत्तिरित्युत्तरश्लोकेन दर्शयतीत्याह तत्प्रतिपत्त्यर्थमिति । निर्तुःखित्वमिति । त्वमर्थस्य चैतन्यस्य प्रसिद्धत्वादुद्दिश्यमानस्य वि-