पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९८
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता


तद्वाधस्तत्त्वदर्शनादिति कुतः सम्भाव्यत इति चेदत
आहागोपालाविपालपण्डितमियमेव प्रसिद्धिः ।
 अप्रमोत्थं प्रमोन्येन ज्ञानं ज्ञानेन बाध्यते ।
 अहिरज्वादिवद्वाधो देहाद्यात्ममतेस्तथा ॥ १०४ ॥
लौकिकप्रमेयवैलक्षण्यादात्मनो नेहानधिगताधिगमः प्र
 अविद्यानाशमात्रं तु फलमित्युपचर्यते ।
 नाज्ञातज्ञापनं न्यायमवगायेकरूपतः ॥ १०५ ॥
यस्मादात्मानवबाधमात्रापादान्नाः प्रमात्रादयस्तस्मात् ।
 न विदन्त्यात्मनः द्रष्टदर्शनगोचराः ।
सत्ता
 न चान्योन्यमतोऽमीषांज्ञेयावं भिन्नसाधनम् ॥१०६॥


 कुतः सम्भाव्यत इत्यादिना । मिथ्याज्ञानसम्यग्ज्ञानयोबध्यबाधकत्ववन्मिथ्याज्ञानप्रतिपन्नसम्यग्ज्ञानप्रतिपन्नयोरप्यहिरज्वोबाँध्यबाधकभावः संप्रतिपन्न इत्याह आहिरज्ज्वादिवदिति । दाष्टन्तिकमाह देहाद्यात्मेति । देहाद्यात्मज्ञानयोर्देहात्मनोश्च बाध्यबाधकभावः सम्भवतीत्यर्थ ॥ १०४ ॥

 ननु तत्त्वदर्शनादित्युक्तत्वात्प्रमाणजनितप्राकट्यविषयत्वमात्मनी ऽभ्युपगतं ततः स्वतःसिद्धत्वहानिरित्याशङ्कयाह लौकिकेति । लौकिकस्य प्रमेयस्य यथानधिगताधिगतिः प्रमेयपरिच्छित्तिः फलं भवति नैवमातस्य फलमित्यर्थः ॥ १०५ ॥

 आत्मव्यतिरिक्तस्यात्मवेद्यत्वादपि न तदधीनाधिगम आत्मेत्याह यस्मादिति । द्रष्टदर्शनगोचरा द्रष्टा दर्शनं गोचराश्च ते तावत्स्वात्मानं स्वयमेव न जानन्ति जडत्वात् । नाप्यन्योन्यमतस्तेषां स्वव्यतिरिक्तात्मवेद्यत्वमेव तस्मान्न तदधीनाधिगतिरात्मेत्यर्थः ॥ १०६ ॥