पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९८०
नैषधीयचरिते


रस्तादप्रधानानां वर्णान्तराणां नीलरक्तादीनां वर्णानां वर्णना का, अपितु-सा नैव कुत्राप्युपयुज्यते तत्कथा न कार्यैव । यावत् यतः कारणाद् यो धवलिमा शुक्लगुणः षड्विधेषु रूपेषु मध्ये राजैव श्रेष्ठतम एव । निर्मलत्वादहितत्याद्रूपविभागवेलायां वैशेषिकैः प्रथमोच्चारितत्वाञ्च प्रधानभूत एव । तस्य प्रधानभूतस्यापि योगात्संबन्धाद्रजतं दुष्टोऽसमीचीनो वर्णो यस्य तस्य भावस्तत्ता दुर्वर्णशब्दवाच्यता तद्रूपं दुर्यशोऽकीर्तिमेति । नीलादिवर्णान्तरयुक्तं तु दुर्वर्णतां प्राप्नोतीति किं वाच्यमित्यर्थः । यावत्सकलं रजतमिति वा । अप्रधानस्यापि पीतरूपस्य भैमीशरीरेणाङ्गीकृतत्वादेवोत्तमत्वम् । तद्योगात्काञ्चने सुवर्णमिति कीर्तिः। भैमीशरीरेणानङ्गीकृतत्वादेव चोत्तमस्यापि धवलिनोऽनुत्तमता । धवलिमा, वर्णवाचित्वाद्गुणवचनत्वाद्वेमनिच् ॥

 इदानीं नवभिः श्लोकैभैमीवाणीं वर्णयति-

खण्डक्षोदमृदि स्थले मधुपयःकादम्बिनीतर्पणा-
 त्कृष्टे रोहति दोहदेन पयसा पिण्डेन चेत्पुण्ड्रकः ।
स द्राक्षाद्रवसेचनैर्यदि फलं धत्ते तदा त्द्वगिरा-
 मुद्देशाय ततोऽप्युदेति मधुराधारस्तमप्पत्ययः ॥ १५३ ॥

 खण्डेति ॥ हे भैमि, पुण्ड्रकः स्थूलेक्षुविशेषः पयसां पिण्डेन दुग्धानामत्यन्ताग्निपाकघनीभूतेन गोलकेनैव दोहदेन एवंभूते स्थले क्षेत्रे चेद्रोहति साङ्कुरो भवति । किंभूते स्थले-खण्डः शर्कराचूर्णमेव मृन्मृत्तिका यस्मिन् । तथा मधु अमृतं माक्षिकमेव वा पयो यस्यास्तया कादम्बिन्या मेघमालया तर्पणात् पूर्णजलत्वकरणाद्धेतोर्द्विगुणाकृष्टे । मेघमालावृष्टजलं हि क्षेत्रं पुनः कृष्यते, तादृशे समीकृते उप्तं हि बीजमङ्कुरार्थं पुनः पयोऽपेक्षते । तत्स्थानेऽत्र दुग्धगोलकः।दोहदेनेत्यनेन निरातङ्कमभिवृद्धिः सूचिता। अनन्तरं च प्ररूढाङ्कुरः सन् पुण्ड्रकः फलोत्पत्तिसमयपर्यन्तं द्राक्षाणां द्रवः पक्कफलनिष्पीडितरसस्तस्य सेचनैः कृत्वा इक्षुदण्डादपि परिणतमाधुर्यातिशयफलं यदि धत्ते तदा तर्हि ततोपि विशिष्टेषुफलादपि सकाशात्त्वद्गिरां तव वाणीनामुद्देशाय निर्देशार्थं मधुरशब्द आधारो मूलप्रकृतिर्यस्य तादृशस्तमप्प्रत्यय उदेति उत्पद्यते । कीदृग्भैम्या वाणीति पृष्टे उक्तविशेषणविशिष्टादिक्षुफलादपि मधुरतमेति तदा निर्देष्टु श. क्यते इत्यतिशायने तमप् तदैव संगच्छते इत्यर्थः । एवंविशिष्टं फलं यदि भवेत् , तर्हि तदेव तावदतिमधुरं तस्मादप्यतिमधुरं वस्तु विद्यते किमिति पृष्टे निःसीममधुरतमस्यान्यस्याभावात्तमप्प्रत्ययान्तमधुरशब्देन भवद्वाण्येवोत्तरत्वेन दातुं योग्या नतु विशिष्टमपीक्षुफलं, निःसीममाधुर्याभावात्तमप्प्रत्ययानुपपत्तेः, किमुत मधुराणि द्रव्यान्तराणीति भवद्वाणीवन्मधुरतमं वस्तु किंचिदपि न दृष्टमिति भावः । एवंविधे क्षेत्रे यदि पुण्ड्रको रोहति, स च पयसां पिण्डेन दोहदेन, द्राक्षाद्रवसेचनैश्च दोहदेन, यदि फलं धत्त इति वा । 'कादम्बिनी मेघमाला' इत्यमरः । 'पुण्ड्रो दैत्यविशेषेक्षुभेदयोः' इति विश्वः। ततः स्वार्थे कन् ॥