पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९७९
एकविंशः सर्गः।


कानां वितस्तिमात्रनालीकाख्यशरविशेषाणां मुक्ति मोक्षणमिच्छतः एवंशीलयो रतिकामयोः संबन्धिनी द्विनलिकीं नालीकमोचनोपायभूतसरन्ध्रवंशपर्वद्वयं त्वन्नासाच्छलेन त्वदीयवामदक्षिणनासापुटद्वयव्याजेन निह्णुतां गोपितां जानामि । त्वन्नासापुटद्वयमेतन्न भवति, किंतु नालीकद्वयमुक्त्युपायभूता द्विनलिकीत्येवाहं शङ्क इत्यर्थः।तथा- त्वन्निश्वासलते तव वामदक्षिणनासानिश्वासधाराद्वयं तयो रतिकामयोः प्रत्येकं मधुश्वसनजं वसन्तकालीनमलयानिलप्रभवं वायव्यं वायुदेवताकमस्त्रमेव वेद्मि। सुन्दरत्वद्भूनासाद्यवयवदर्शनमात्रेण कामवशत्वं भवतीति भावः । द्विनलिकी, समाहारद्विगौ ङीप् । वायव्यम् , 'सास्य देवता' इत्यर्थे 'वाय्वृतुपित्रुषसो यत्' इति यत् ॥

पीतो वर्णगुणः स चातिमधुरः कायेऽपि तेऽयं यथा
 यं बिभ्रत्कनकं सुवर्णमिति कैरादृत्य नोत्कीर्त्यते ।
का वर्णान्तरवर्णना धवलिमा राजैव रूपेषु य-
 स्तद्योगादपि यावदेति रजतं दुर्वर्णतादुर्यशः ॥ १५२॥

 पीत इति ॥ हे भैमि, वर्णेषु शुक्लादिरूपेषु मध्ये गुणो वैशेषिकादिभिर्गुणपदार्थत्वेन निर्दिष्टः पीतो हरिद्राभो वर्णः स च स एवातिमधुरो रमणीयतरो, नतु वर्णान्तरं मधुरमित्यर्थः । यथा येन कारणेनायं पीतो वर्णस्तेऽपि काये देहे वर्तते । अत्युत्तमया त्वयापि शरीरे धार्यते तस्मादयमत्युत्तम इत्यर्थः । अथच-रूपान्तरापेक्षया शुक्लरूपस्यैव प्रधानत्वादन्येषां चाप्रधानत्वावर्णेषु मध्ये गुणोऽप्रधानभूतोऽपि यो हरिद्राभो वर्णः स एवातिमधुरः प्रधानभूत इत्यर्थः । यस्मादयं ते काये वर्तते । अप्रधानस्यापि केनचिदत्युत्तमेनाङ्गीकृतत्वाद्धि प्राधान्यं भवति, तथा त्वयाङ्गीकृतत्वादप्रधानस्याप्यस्य प्राधान्यं युक्तमेवेत्यर्थः । अथ च-गुणः पीत एव, नान्ये गुणाः, पीतवर्ण एव गुणरूपोऽन्ये तु दोषरूपा इत्यर्थः । स एव चातिमधुरः । उभयत्रापि हेतुः-यतोऽयं तव काये वर्तते तस्माद्गुणोऽतिमधुरश्चेत्यर्थः। अथच-ते तव काये वर्तमानोऽयं प्रत्यक्षगम्योऽतिमधुरो रसो यथा मया पीतस्तत्तच्चुम्बनस्थानचुम्बनवशेनास्वादितः, तथा तव काये सोऽतिप्रसिद्धो वर्णगुणो गौरिमापि पीतः सादरं निरीक्षितः। अथच-हरिद्राभ इत्यर्थः । चः, अपिश्चान्योन्यसमुच्चये । सोऽतिमधुरो रसो यथा मया पीतः, तथायं वर्णगुणोऽपि पीत एवेति वा संबन्धः । अथच-तवातिमधुरो वर्णगुणो वर्णात्मकशब्दलक्षणो गुणो यथा पीत आस्वादितः, अतिमधुरा तव वाणी यथा पीतेत्यादि ज्ञातव्यम् । एवं छलेनोक्त्वा प्रकृतपीतरूपवर्ण एव युक्तिमाह-त्वच्छरीराश्रयं पीतवर्णं बिभ्रत् कनकं चम्पकं शोभनो वर्णोऽस्य तत्सुवर्णमिति कैर्जनैराहत्यादरेण नोत्कीर्त्यते नोद्भाष्यते, अपितु-त्वदङ्गधृतवर्णतुल्यवर्णधारणादेव चम्पकं सुवर्णमित्युच्चैः कीर्त्यते। अथच-त्वच्छरीराश्रयं पीतवर्णं धारयञ्चामीकरं शोभनो वर्णोऽस्येति व्युत्पत्त्या सुवर्णमिति कैर्जनैरादरेण नोद्घोष्यते, अपितु-त्वच्छरीराश्रितपीतवर्णतुल्यवर्णधारणादेव सुवर्णमिति कीर्ति लेभे इत्यर्थः । अथच-शोभनो वर्णः स्तुतिर्यस्य । त्वदङ्गवर्णं बिभ्रदतितरां स्तुत्यं, नतु स्वत इति । मुख्यया वृत्त्या सुवर्णमिति त्वदीयमङ्गम् , कनकं तु त्वद्वृत्तिवर्णसाम्यधारणाद्गौण्या वृत्त्या लोकेन कथ्यत इत्यर्थः । अतएव पीतवर्णस्य पु-