पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९७८
नैषधीयचरिते


 अङ्घ्रीति ॥ स्फुटमुत्प्रेक्षते हे प्रिय, रथाङ्गमिथुनं विच्छेत्तुं वियोक्तुम् , अथ च-विशे- षेण विदारयितुमन्विच्छता विधिना ब्रह्मणा देवेन वाऽयं कालः सायंसंध्यासमय एव स्फुटं खड्गगुणयोगात्कालः कृष्णः लोहमयः कृपाणः भानुशाणवलये सूर्यरूपे शाणचके संसज्य संयोज्य निज्यते किम्, तीक्ष्णीक्रियते किमित्यर्थः। किंभूते वलये-अस्तमयकालसांनिध्यादङ्घ्रिस्थः किरणस्थोऽरुणिमा स एव इष्टकाविसरणानि इष्टकाचूर्णप्रसारणानि तैः शोणे रक्तवर्णे । तथा-रश्मिग्राहिणा गरुत्मतोऽग्रजेनारुणेन समारब्धाऽविरामा निरन्तरा भ्रमिर्भ्रमणं यस्य तस्मिन् , सदाऽरुणेन कृतभ्रमणे । अथ च-आकर्षणरज्जुग्राहिभिररुणसमैस्तद्वत्तेजस्विभिर्बलिभिः पुरुषैरारब्धनिरन्तरभ्रमणे । तथा दण्डसंज्ञकेन पारिपार्श्वकेन भ्राजिनि शोभमानशीले, अथ च-शाणचकाधारभूतेनाकर्षणरज्जुसंयुक्तेन दारुमयेन दण्डेन शोभमाने । संनिहितास्तमयसूर्यसायंसंध्यासमयसांनिध्याच्चक्रवाकयुगं तीक्ष्णतरखड्गविदारितमिव विधिवशाद्वियुक्तं सव्द्यथत इति भावः । अन्योपि किंचिच्छेत्तुं खड्गमुक्तविशेषणविशिष्टे शाणचके तीक्ष्णं करोति । 'किरणप्रग्रहौ रश्मी' 'माठरः पिङ्गलो दण्डश्चण्डांशोः पारिपाश्चिकाः' इत्यमरः । भ्रमाविति भाषि- तपुंस्कम् । निज्यते, 'णिजिर् शौचे' इत्यस्मात्कर्मणि यक् । नकारे तकारभ्रान्त्यैव ति[१]ज्यत इति पठन्ति । तदसत्॥

इति स विधुमुखीमुखेन मुग्धालपितसुधासवमर्पितं निपीय ।
स्मितशबलवलन्मुखोवदत्तां स्फुटमिदमीदृशमीदृशं यथास्थ ॥१५०॥

 इतीति ॥ स नलोऽपि तां भैभौमिति अवदत् । इति किम्-हे प्रिय, त्वं यथात्थ, तदिदं स्फुटं निश्चितमीदृशमीदृशं सत्यमेवेत्यर्थः । किंभूतः इति पूर्वोक्तरीत्या विधुमुख्या भैम्या मुखेनार्पितं दत्तं मुग्धं मनोहारि आलपितं मञ्जुभाषितमेव सुधासवं रसबाहुल्यादमृतं उन्मादकत्वाच्च मद्यं निपीयास्वाद्य सादरमाकर्ण्य च स्मितेन शबलं मिश्रितं वलत् भैमीसंमुखं मुखं यस्य सः। कामिनो हि कामिनीमुखार्पितमद्यं सानुरागं पिबन्ति, अनन्तरं वलितमुखाः सहासं किंचिद्वदन्ति च ॥

स्त्रीपुंसौ प्रविभज्य जेतुमखिलावालोचितौचित्ययो-
 र्नम्रां वेद्मि रतिप्रसूनशरयोश्चापद्वयीं त्वद्भुवौ ।
त्वन्नासाच्छलनिह्नुतां द्विनलिकीं नालीकमुक्त्येषिणो-
 स्त्वनिश्वासलते मधुश्वसनजं वायव्यमस्त्रं तयोः॥ १५१ ॥

 स्त्रीति ॥ अयि प्रिये, अहं वक्रतरे त्वगुवौ रतिश्च प्रसूनशरः कामश्च तयोः नम्रां स्त्रीजयाय रत्या पुंजयाय च कामेनाकर्णमाकृष्य वक्रितां चापद्वयीं वेद्मि, त्वद्भ्रुवावेव द्वयोर्धनुषी इत्यर्थः । किंभूतयोः--अखिलौ त्रिजगति वर्तमानौ तत्तजातीयौ स्त्रीपुंसौ प्रविभज्य विभागं कृत्वा पृथक्पृथक् जेतुमालोचितं विचारितमौचित्यं याभ्यां तयोः । स्त्रियाः स्येव जेतुं योग्या, पुंसश्च पुमानेवेत्यालोचितौचित्ययोरित्यर्थः । तथा-नाली-


  1. 'तिज निशाने' इत्यस्य तीक्ष्णीकरणार्थकस्य धातोस्तादृग्रूपसंभवे 'तदसतू' इत्युक्तिश्चिन्त्या ।