पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९७४
नैषधीयचरिते

रागं प्रतीत्य युवयोस्तमिमं प्रतीची
 भानुश्च किं ड्वयमजायत रक्तमेतत् ।
नड्वीक्ष्य वां किमिह केलिसरित्सरोजैः
 कामेषुतोचितमुखात्वमधीयमानम् ॥ १४० ॥

 रागमिति ॥ प्रतीची दिक् भानुश्चैतद्वयं युवयोस्तं सात्त्विकस्बेदरोमाञ्चसूचितमिमं प्रत्यक्षदृश्यमिवानुरागं प्रतीत्य किं ज्ञात्वेव रक्तमजायत लोहितवर्णमभूत् । भैमीनलाविदानी रिरंसू अपि दिवा मैथुननिषेधभिया साशङ्कौ वर्तेते । तस्माद्रात्रिं करिष्यामीति सूर्यमस्तं प्रापयितुमिव प्रतीची रक्तवर्णाभूत् । इदानीं मयाप्यस्तं गन्तुं योग्यमितीव सूर्योपि रक्तवर्णोऽभूदित्यर्थः । अथ च-युवयोरेव केलिसरितः सरोजैः कमलैस्तद्भानुप्रतीचीरूपं रक्तं मिधुनं वीक्ष्य वां भैमीनलौ च रक्तौ वीक्ष्य किं दृष्टेवेह संध्यासमये कामस्य इषुतोचितं शरत्वयोग्यं मुखमग्न्ं येषां तद्भावस्तीक्ष्णाग्रत्वमधीयमानमभ्यस्यमानं 'विद्यते' इति शेषः । तद्वां च सानुरागौ दृष्ट्वा कमलैर्मुकुलीभवनव्याजेन पुष्पबाणतीक्ष्णाग्रत्वमनुभूयते किम् । कामो हि रिरंसू स्त्रीपुंसौ दृष्ट्वा तीक्ष्णमुखैः शरैर्विध्यतीत्यर्थः । अथ च-एतौ भैमीनलौ प्रतीचीभास्करौ च यदि सरागौ जातौ तर्हीदानीं रात्रिः संनिहिताऽस्तीत्यस्माभिर्मुकुलीभावः प्राप्तुमुचित इति तैरपि मुकुलीभूतम् । पझानां संकुचितमुखत्वं कामशरयोग्यतीक्ष्णमुखीभावनोत्प्रेक्षितम् । संध्याकालो जातः, कमलानि मुकुलितानीति भावः॥

अन्योन्यरागवशयोर्युवयोविलास-
 स्वच्छन्दताच्छिदपयातु तदालिवर्गः।
आयाजयन्सिचयमाजिमकारयन्वा
 दन्तैर्नखैश्च मदनो मदनः कथं स्यात् ॥ १४१ ॥

 अन्योन्येति ॥ आलिवर्गः अन्योन्यरागेण परस्परानुरागेण रमणाभिलापेण वशयोर्वश्ययो रिरंसयाऽन्योन्याधीनयोर्युवयोर्विलासस्य कामविलासस्य स्वच्छन्दतां निःशङ्कप्रवृत्ति छिनत्ति कामक्रीडाविघ्नकारी यस्मात्, तस्मादपयातु गृहाद्वहिर्निर्गच्छतु । यस्मान्मदनः कामः सिचयं वसनमत्याजयन्नपरिहारयन्नर्थात्स्त्रीपुंसौ तथा--दन्तैर्नखैश्च करणभूतैराजिं संग्रामम्, एतैरुपलक्षितां वा नानाबन्धसुरतमल्लयुद्धं च स्त्रीपुंसावकारयन् सन् मादयतीति मदनः मदकारी कथं वा स्यात् , अपित्वेवमेव कारयन्मदनी हर्षकारी भवेदेव । तस्मात्सखीवर्गो गृहाद्वहिर्गच्छत्वित्यर्थः । मदनः, नन्द्यादित्वाल्युः ।।

इति पठति शुके मृषा ययुस्ता बहु नृपकृत्यमवेत्य सांधिवेलम् ।
कुपितनिजसखीदृशार्धदृष्टाः कमलतयेव तदा निकोचवत्या ॥ १४२॥