पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७६
नैषधीयचरिते

यथामति व्याख्येयम् । 'चक्रो गणे चक्रवाके चक्रं सैन्यरथाङ्गयोः । ग्रामजाले कुलालस्य भाण्डे राष्ट्रास्त्रयोरपि' इति विश्वः॥


भजते खलु षण्मुखं शिखी चिकुरैर्निर्मितबर्हगर्हणः ।
अपि जम्भरिपुं दमस्वसुर्जितकुम्भः कुचशोभयेभराट् ॥ ३३॥

 भजत इति ॥ खलूत्प्रेक्षे । दमस्वसुः चिकुरैः केशैर्निर्मिता कृता बर्हगर्हणा पिच्छभारतिरस्कारो यस्य स शिखी मयूरः षण्मुखं कार्तिकेयं भजते सेवते । प्रसङ्गत एतदुक्तम्। तथा दमस्वसुः कुचशोभया स्तनभारेण जितौ गण्डौ यस्य स इभराट्र्X करिणां राजा ऐरावतोऽपि जम्भारिमिन्द्रं सेवते । भैम्याः केशसाम्यं स्तनसाम्यं च देवाराधनेन प्राप्तुकामौ वैरनिर्यातनार्थं वा तौ भजत इति भावः । अधिकेन जितोऽन्यमधिकं भजते । चिकुरैरिति बहुवचनेनैव बहुत्वं सूचयित्वा षण्मुखपदप्रयोगेण षण्मुखत्वात्स्कन्दस्य केशसंभावनया तत्प्राप्त्यर्थं शिखिनः स्कन्दाश्रयणं युक्तम् । 'जभि जृभि गात्रविनामे' जम्भते गात्रविनामं करोतीति जम्भस्तद्रिपुर्जम्भादधिकः । अत एव सेव्यते । अस्या गात्रविनामकारिणी कुचशोभा जम्भतुल्येति हेतोस्तदधिकमिन्द्रं सेवते इति ॥

उदरं नतमध्यपृष्ठतास्फुटदङ्गुष्ठपदेन मुष्टिना ।
चतुरङ्गुलमध्यनिर्गतत्रिवलिभ्राजि कृतं दमस्वसुः ॥ ३४ ॥

उदरमिति ॥ हे राजन् , दमस्वसुभैम्या उदरं मुष्टिना कृतम् । विधिनेत्यर्थात् । किंभूतेन मुष्टिना-नतो नम्रो मध्यो यस्यैवंविधं पृष्ठं यस्योदरस्य तस्य भावस्तत्ता तया स्फुटत्प्रकटीभवदङ्गुष्ठपदमङ्गुष्ठस्थानं यस्य तेन । किंभूतमुदरम्- चतसृणामङ्गुलीनां मध्यात्तिस्रो वलयस्ताभिर्भाजते तच्छीलम् । पृष्ठमध्ये निम्नत्वमङ्गुष्ठनिवेशात् । उदरे त्रिवलियुक्तत्वं चतुरङ्गुलिधारणात् । चतसृणां त्रीण्येवान्तराणि भवन्ति । चतुरङ्गुलमिति 'तत्पुरुषस्या-' इत्यच् ॥ प्रकारान्तरेणोदरमेव वर्णयति-


उदरं परिमाति मुष्टिना कुतुकी कोऽपि दमस्वसुः किमु ।
धृततच्चतुरङ्गुलीव यद्वलिभिर्भाति सहेमकाञ्चिभिः ॥ ३५॥


 १ अनुमानमलंकारः, स तदुच्चकुचौ भवन्निति रूपकम् । कुचकलसदर्शनाच्चक्रवाकभ्रान्तितननाद्भ्रान्तिमानप्यलंकारो भवति' इति साहित्यविद्याधरी । 'अत्र समवायिकारणगुणा रूपादयः कार्ये संक्रामन्ति, न निमित्तगुणा इति तार्किकसमये स्थिते गुण इति चक्रभ्रम इति चोभयत्रापि वाच्यप्रतीयमानयोरभेदाध्यवसाय एव । स तदुच्चकुचौ भवन् इति कुचकलसभ्रमयोरभेदातिशयोक्त्युत्थापितझरचक्रभ्रमात्मकक्रियानिमित्ता कुचात्मनि कलसे कार्ये चक्रभ्रमकारितालक्षणनिमित्तकारणगुणसंक्रमलक्षणेनोत्प्रेक्षेति संक्षेपः । तार्किकसमये विरोधाद्विरोधाभासोऽलंकार इति कैश्चिदुक्तं, तदत्यन्ताश्रुतचरमलंकारपारदृश्वानः शृण्वन्तु' इति जीवातुः। २ 'अत्रोत्प्रेक्षा दीपकं चालंकारः' इति साहित्यविद्याधरी । 'अत्र शिख्यैरावतयोः षण्मुखजम्भारिभजनस्य जितबर्हत्वजितकुम्भत्वपदार्थहेतुकत्वात्तद्धेतुके काव्यलिङ्गे । तदसंबन्धेऽपि संबन्धाभिधानादतिशयोक्तिश्च' इति जीवातुः। ३ 'अत्र काव्यलिङ्गरूपकालंकारः' इति साहित्यविद्याधरी । 'उत्प्रेक्षा' इति जीवातुः।