पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९६८
नैषधीयचरिते

माना सती ततमत्युच्चं 'निषादं च गजो ब्रूते' इति शास्त्रप्रामाण्यान्निषादस्वरेण मञ्जुलं नादमुद्गिरती । 'चापलभाग्भवन्ती' इत्यपि पाठः । स्तम्बेरमी 'स्तम्बकर्णयोरमिजपोः' इत्यचि 'हलदन्तात्' इत्यलुकि जातिवाचित्वान्ङीष् ॥

आकृष्य सारमखिलं किमु वल्लकीनां
 तस्या मृदुस्वरमसर्जि न कण्ठनालम् ।
तेनान्तरं तरलभावमवाप्य वीणा
 ह्रीणा न कोणममुचत्किमु वालयेषु ॥ १२९ ॥

 आकृष्यति ॥ ब्रह्मणा वल्लकीनां वीणानामखिलमान्तरं सारं श्रेष्ठं भागमाकृष्य तस्या भैम्याः कण्ठनालं ग्रीवादण्डः किमु नासर्जि सृष्टम् । अपितु तमेव सारमाहृत्य तदीयं कण्ठनालं सृष्टम् । यतो मृदुस्वरसकलवीणासारनिर्मितत्वादेव भैमीकण्ठस्य मधुरतमत्वं जातमित्यर्थः । यस्मादेवं तेनैव हेतुना हृतसारतयैवान्तरं वीणादण्डमध्यगतं तरलभावं लक्षणया मन्दशब्दत्वमवाप्य ह्रीणा किमु लज्जितेव वीणालयेषु स्वरविश्रान्तिरूपासु मूर्छनासु विषये कोणं वा लीलाधनुःसदृशाकारं वीणावादनसाधनं नामुचत् । गृहीतसारोऽन्योपि निःसारतयैवागम्भीरान्तःकरणतां प्राप्य ह्रीणः सन्नालयेषु गृहेषु कोणं कुड्यभागद्वयसंयोगस्थानं न मुञ्चति । पुष्कलच्छिद्रस्य वीणादण्डस्य स्वरोऽतिगम्भीरः प्रशस्ततरो भवति । मधुरतरं वीणा क्वणति स्मेति भावः। वीणास्वरस्यापेक्षया भैमीस्वरस्याधिक्यमेतेन सूचितम् । वीणादण्डस्य सच्छिद्रत्वेन निःसारत्वोत्प्रेक्षा । 'वीणादिवादने कोणोऽप्येकदेशो गृहस्य च' इति विश्वः ।।

तद्दम्पतिश्रुतिमधून्यथ [१]चाटुगाथा
 वीणास्तथा जगुरतिस्फुटवर्णवन्धम् ।
इत्थं यथा वसुमतीरतिगृह्यकस्ताः
 कीरः किरन्मुदमुदीरयति स्म विश्वाः ॥ १३० ॥

 तदिति ॥ अथ काकल्युद्गिरणानन्तरं गन्धर्वराजकन्यानां वीणाः तयोर्दम्पत्योः श्रुतीनां कर्णानां मधूनि अमृततुल्या भैमीनलप्रियस्तुतिकारिणीश्चाटुगाथाः श्लोकान् तथा तेन प्रकारेणातिस्फुटो वर्णबन्धस्तन्त्रीनिबद्धाक्षरविन्यासो यस्मिंस्तद्यथातथा जगुः । यथा येन प्रकारेण वसुमत्यां भूमौ रतिरूपाया भैम्या गृह्यकः पञ्जरेऽवरुद्धः शुकः मुदं किरन् श्रोतॄणां हर्षमुत्पादयन् विश्वाः सर्वास्तत्तद्वर्णमात्रादिसहितास्तास्ता गाथा इत्थं वक्ष्यमाणरीत्या उदीरयति स्म । तिर्यग्योनिः शुकोपि यथा श्रवणमात्रेण सर्वा अपि गाथा अनुवदितुं शक्नोति तथा तन्त्रीषु स्फुटतराक्षरबन्धान्भैमीनलस्तावकश्लोकान् वीणाः



  1. 'चारुगाथा' इति पाठोपि सुखावबोधासम्मतः ।