पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५८
नैषधीयचरिते


 प्राग्भवेति ॥ प्राग्भवैः प्राक्तनैः पूर्वजन्मोपार्जितैः कर्मभिर्हेतुभिरुदगुदग्भवस्योत्तरोत्तरस्य संसारस्य जन्मनो वा गुम्फाग्द्रथनाद्धेतोः 'आत्यन्तिकी दुःखनिवृत्तिः, अविद्यास्तमयो (वा) मोक्षः' इत्येवंलक्षणाया मुक्तेर्युक्तिर्योगः । प्राप्तिरिति यावत् । तस्या विहतावनेकजन्मसु तत्तत्सुकृतदुष्कृतरूपकर्मार्जनान्मूलसद्भावात्संसारानिवृत्तौ कथं नाम मुक्तिः संभवतीत्यादिभिर्युक्तिभिरनुपपद्यमानतायां तावन्निश्चयेन सत्यामिहैवं पूर्वपक्षे विषये कस्यचनापि वादिनस्त्वयि समाधिश्चित्तैकाग्र्यं ध्यानं संततानुचिन्तनमवधूय परिहृत्यापरोऽन्यः समाधिः परिहारः सिद्धान्तरूपो न स्फुरति प्रकाशते । उक्तरीत्या यद्यपि मुक्तिविहतिस्तथापि तव ध्यानादिद्वारा प्राप्तपरमात्मरूपसाक्षात्कारेणैव प्राचीनतत्तज्जन्मार्जितकर्मणां समुन्मूलनादिदानीमन्यकर्मारम्भे प्रारब्धकर्मणां भोगादेव क्षयान्नैष्कर्म्ये संपन्ने मुक्तिर्युज्यत एवेति सर्वेषामपि वादिनां त्वत्समाधिरेव सिद्धान्त इत्यर्थः । मुक्तिहेतुस्त्वमेवेति भावः । न तावत्स्फुरतीति वा ॥

ऊूर्ध्वदिक्कदलनां द्विरकार्षीः किं तनुं हरिहरीभवनाय ।
किं च तिर्यगभिनो नृहरित्वे का खतन्त्रमनु नन्वनुयोगः ॥१०५॥

 ऊर्ध्वेति ॥ हे विष्णो, त्वं हरिहरीभवनाय हरेर्हरस्यापि भवनाय हरिहरमूर्तीभवितुमूर्ध्वा दिग्यस्मिन्दलने तदूर्ध्वदिक्कमेवंभूतं दलनं विभागो यस्यास्तादृशीं तनुं द्विःप्रकारां किमकार्षीः । हरिहरमूर्तौ चरणादिकमूर्ध्वपर्यन्तं तत्तद्विसदृशवर्णादिधारणादधोभागमारभ्योर्ध्वभागपर्यन्तं किमकार्षीः । नृहरित्व इव तिर्यग्विभागामेव किमिति नाकार्षीरित्यर्थः। चरणादेवारभ्य देवतावर्णनस्य कर्तुं युक्तत्वादूर्ध्वदिक्केत्युक्तम् । यदि च हरिहरत्वे तनुमूर्ध्वदिक्कविभागामकार्षीस्तर्हि नृहरित्वे नरहरीभवितुं तनुं तिर्यग्यथातथा किमिति अभिनः विभक्तवानसि । कण्ठादधोभागे नरत्वेन, ऊर्ध्वभागे सिंहत्वेनैव तिर्यग्दिक्कविभागं किमित्यकार्षीः। हरिहरत्व इवोर्ध्वदिकविभागमेव किमिति नाकार्षीरित्यर्थः । एवमाक्षेपद्वयं स्वयमेव परिहरति-ननु विष्णो, स्वतन्त्रं त्वामनु प्रति अनुयोगः प्रश्नः कः, अपितु-न युक्तोऽयं प्रश्नद्वारक आक्षेपः। समर्थो हि स्वेच्छया यत्किंचित्करोति, परं किमर्थमेवं करोषीत्याक्षेपार्हः स न भवतीत्यर्थः । 'न खलु परतन्त्राः प्रभुधियः' इति न्यायेन स्वेच्छामात्रेण तथातथारूपं करोषीति भावः । अत्र ह- रिहर-नरहरिवर्णनम् । ऊर्ध्वदिक्केति बहुव्रीहौ कप् ॥

आप्तकाम सृजसि त्रिजगत्किं किं भिनत्सि यदि निर्मितमेव ।
पासि चेदमवतीर्य मुहुः किं स्वात्मनापि यदवश्यविनाश्यम् ॥१०६॥

 आप्तेति ॥ हे आप्तकाम अवाप्तसकलाभिलाष विष्णो, त्वं त्रिजगत् किं सृजसि । यदि निर्मितमेव, तर्हि निष्प्रयोजनमेव किं भिनत्सि । यदि चेदं स्वयमात्मनापि निश्चयेन संहरणीयमेव तर्हि मुहुर्वारंवारं तेनतेन प्रकारेणावतीर्य जन्मादिक्लेशमनुभूयेदं जगत् किमर्थं पासि च । यदवश्यं विनाश्यम्, तत्कोपि नहि स्वात्मना स्वयमेव पालयति । प्रयोजनाभावात् सृष्टिपालनसंहारान्किमर्थं करोषीत्यर्थः । अत्रापि 'कः स्वतन्त्रम्-' इत्यादिः पूर्व एव परिहारः । ब्रह्मादिरूपस्त्वमेवेति भावः । इष्टप्राप्तिरनिष्ट-