पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९५७
एकविंशः सर्गः।

दिसौभाग्यं शिक्षितुमिव। गुरुशुश्रूषा हि विद्याप्राप्तिहेतुः।तथा-कुमुदहासकराः कैरवविकासकारिणोंऽशवो यस्य स चन्द्रः नयनायितं नेत्रमिवाचरितं बिम्बं यस्य तथाभूतः सन् त्वदीयवामनयनीभवंश्चन्द्रः परमं निष्कलङ्कत्वादि त्वन्मुखसौभाग्यं शिक्षितुमिव त्वदाननं गुरुं च सेवते । त्यज्यते सेवते इति लटा -अनयोः सौभाग्यं पद्मचन्द्रयोरद्यापि नागतमिति सूच्यते । 'पाञ्चजन्य-' इत्यादिश्लोकत्रयेण मूलप्रकृतिरेव वर्णिता । नयनायितेति आचारक्य(ङ्ङ)जन्तान्निष्ठा । 'हासकर-' इति ताच्छील्ये टः॥

ये हिरण्यकशिपुं रिपुमुच्चै रावणं च कुरुवीरचयं च ।
हन्त हन्नुमभवंस्तव योगास्ते नरस्य च हरेश्च जयन्ति ॥ १०२ ॥

 य इति ॥ हे विष्णो, ये तव क्रमेण नरस्य मनुष्यस्य च हरेः सिंहस्य च । तथा-नरस्य श्रीरामचन्द्रस्य, हरेः सुग्रीवस्य । तथा नरस्य अर्जुनस्य, हरेः श्रीकृष्णस्य च । संयोगा उच्चैरधिकं रिपुं हिरण्यकशिपुं हन्तुम् , तथा-रावणं च हन्तुम् , तथा-कुरुवीराणां भीष्मादीनां चयं च हन्तुमभवन् । ते तव नरस्य हरेश्च योगा जयन्ति सर्वोत्कर्षेण वर्तन्ते । हन्ताश्चर्यम् । अवतारत्रयमपि नरहरियोगावलम्बनात् । योगः संश्लेषो मैत्री च॥

केयमर्धभवता भवतोहे मायिना ननु भवः सकलस्त्वम् ।
शेषतामपि भजन्तमशेषं वेद वेदनयनो हि जनस्त्वाम् ॥ १०३॥

 केति ॥ हे विष्णो, तव इयं पुराणादिषु दृश्यमाना अर्धं भवो महेशो यस्य तादृशोर्धभवस्तत्ता हरिहरमूर्तिता काप्यपूर्वाश्चर्यकारिणी मायिनां भवता ऊहे (ऊढा)। मुखात्प्रभृति चरणपर्यन्तं श्यामत्वादितत्तदसाधारणचिह्नयुक्ततार्धस्य, अर्धस्य च धवलत्वाद्यसाधारणचिह्नयुक्तता, एतादृशी लोकोत्तरा तव मायाश्चर्यकारिणीत्यर्थः । अथ च -केयम् , अपित्वनुचितैव । ननु अहो यस्मात्त्वं सकलः समग्रो भवो महेशः, अथ च-चन्द्रकलासहितो यो महेशः स्वतन्त्रमूर्तिः स त्वमेव । तथा च सकलभवरूपस्यार्धभवरूपता विरोधादयुक्ता । आश्चर्यकारित्वेऽप्ययमेव हेतुः। हरिहरात्मकता चावतारान्तरमित्यवतारभेदेन तु विरोधपरिहारः । भवतेयमर्धभवता का ऊहे ऊढेत्यर्थ इति वा । अथ च-तवेयमर्धसंसारता का, अपि तु-विरुद्धा चित्ररूपा वा । यतः-समग्रः कलाभिरवयवैः सह वर्तमानश्च संसार उत्पत्तिधर्मा त्वमेवेति वा । हि यस्माद्वेदा एव नयनानि यस्य सकलवेदार्थनिश्चयदृढप्रत्ययो जनो लोकस्त्वां शेषतामेकदेशभूततां पृथग्भूततां भजन्तमपि अशेषं चराचरजगद्रूपं च वेद जानाति । सर्वं विष्णुमयं जगत्' इत्यादिश्रुतिस्मृतिभिस्तव चराचररूपत्वप्रतिपादनात्त्वयि सकलभवत्वं युक्तमेवेत्यर्थः । किंपुनर्हरिहरादिविचित्ररूपधारणम् । अथच शेषोऽपि विष्णोरेव मूर्तिरनन्ततां भजति, स एव कथमशेषोऽनन्तो न भवतीति च विरोधः। व्याख्यान्तरेण तत्परिहारः॥

प्राग्भवैरुदगुदग्भवगुम्फान्मुक्तियुक्तिविहताविह तावत्।
नापरः स्फरति कस्यचनापि वत्समाधिमवधूय समाधिः ॥१०४॥