पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७४
नैषधीयचरिते

 धनुषी इति ॥ तद्भ्रुवौ भैमीभ्रुवौ विश्वजयाय त्रैलोक्यजयाय रतिपञ्चबाणयोर्धनुषी नोदिते प्रादुर्भूते न इति काक्वा । 'नु' इति पाठे वितर्के । तथा - तस्या भैम्या उच्चनासिके रन्ध्रद्वयोपलक्षिते नासिके त्वयि विषये नालीकौ नलिकाप्रेर्यमाणलघुशरौ तयोर्विमुक्तिकामयोर्नलिके शराधारनलौ न भवतः, अपितु नलिके एव । तस्या भ्रूनासिकं दृष्ट्वा सर्वोऽपि कामाधीनो भवतीति भावः। 'नालीकः शरशल्ययोः' इति विश्वः। विश्वजयाय 'तुमर्थात्-' इति चतुर्थी । कामयोरिति 'शीलिकामिभक्ष्याचरिभ्यो णः' ॥

सदृशी तव शूर सा परं जलदुर्गस्थमृणालजिद्भुजा। अपि मित्रजुषां सरोरुहां गृहयालुः करलीलया श्रियः ॥२९॥ सदृशीति ॥ हे शूर, सा भैमी परं केवलं तव सदृशी योग्या । किंभूता-जललक्षणं दुर्गं तत्र तिष्ठन्ति जलदुर्गस्थानि मृणालानि जयत इति जितौ भुजौ यस्याः सा । मृणालादपि कोमलौ गौरौ च (तद्भुजौ) इत्यर्थः । तथा-करलीलया हस्तविलासेन मित्रं सूर्यं, सुहृदं च जुषन्ते सेवन्ते मित्रजुंषि तेषाम् । विकसितत्वात्सश्रीकाणामपि सरोरुहां कमलानां श्रियो गृहयालुर्ग्रहीतुकामा । त्वमपि जलदुर्गस्थवैरिजिद्भुजः सत्सुहृदां सत्सहायानामपि वैरिणां संपदः करलीलया बलिक्रियया । गृहयालुरिति शूरत्वादुभयोः साम्यम् । अपिरन्यच्च इत्यर्थे वा । 'मित्रं सुहृदि मित्रोऽर्के', 'बलिहस्तांशवः कराः', 'लीला विलासक्रिययोः' इत्यमरः । गृहेश्चौरादिण्यन्तात् 'स्पृहिगृहि-' इत्यादिनालुचि 'अयामन्ता-' इत्ययादेशे गृहयालुः । तद्योगे 'न लोका-' इति षष्ठीनिषेधाच्छ्रिय इति द्वितीया ॥

वयसी शिशुतातदुत्तरे सुदृशि स्वाभिविधिं विधित्सुनी।
विधिनापि न रोमरेखया कृतसीम्नी प्रविभज्य रज्यतः ॥३०॥

वयसी इति ॥ हे राजन् , तस्यां सुदृशि सुनयनायां स्वाभिविधिं निजाभिव्याप्तिं विधित्सुनी कर्तुकामे अहमेव सर्वात्मना इमामभिव्याप्य तिष्ठामीति बाल्यं मन्यते । एवं तारुण्यमपि । एवंभूते शिशुता च तदुत्तरं शिशुताया बाल्यतः परं तारुण्यं च वयसी न रज्यतः, अपितु रज्यत एव संतुष्यत एव । बाल्यतारुण्ये तस्यां तिष्ठत इत्यर्थः । वयःसंधौ वर्तमाना इति यावत् । किंभूते वयसी-विधिना ब्रह्मणा उदरे वर्तमानया रोमरेखया प्रविभज्य समं विभागं कृत्वा कृतसीम्री कृतमर्यादे अपि । एवंविधे विभज्य न रज्यतः, किं तर्हि संवलिते एवानुरागं भजत इति वा । बाल्यं वर्तते, रोमरेखोद्भवेन च तारुण्यं प्राप्तमित्युभे संवलिते एव तिष्ठतः। रम्यत्वाद्वाल्यं त्यक्तुं न शक्नोति, तारुण्यं चागन्तुमिच्छतीति भावः । विधिना शास्त्रोक्तमार्गेण रेखया कृतसीम्न्यपि सस्याधिकायां भुवि मदीयेयं मदीयेयमिति कौचिद्विवदेते ॥


१ 'अत्र भ्रुवोः कार्मुकत्वेन रूपणात् तथा नासिकाया नलिकात्वेन संभावनात् रूपकोत्प्रेक्षालंकारौ' इति साहित्यविद्याधरी। २ 'अत्र समश्लेषालंकारसंकरः' इति साहित्यविद्याधरी । ३ 'अत्रोक्तनिमित्ता विशेषोक्तिरलंकारः । तथा च काव्यप्रकाश:-'विशेषोक्तिरखण्डेषु कारणेषु फलावचः' । अत्र च रोमरेखया विधिनापि कृतसीमात्वकारणे सत्यपि प्रविभागस्थितिः कार्ये नोक्तम् । अत्र वस्त्वभिविधिविधानेच्छा निमित्तमुक्तम्' इति साहित्यविद्याधरी । 'अत्र प्रस्तुतवयोविशेषसाम्यादप्रस्तुतविवादप्रतीतेः समासोक्तिरलंकारः' इति जीवातुः।