पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९५०
नैषधीयचरिते


 हृद्येति ॥ हे हृद्यो हृदयानन्दकारी गन्धश्चन्दनादिसौरभं तं वहसि धारयस्येवंविध सौरभधारिन् श्रीकृष्ण, त्वं शेषरूपं बलभद्ररूपम्, अथ च-नागाधीशरूपं बिभ्रद्धारयन्नप्यशेष उभयविधोऽप्यशेषः शेषो न भवसीति विरोधः। अथ च-न विद्यते शेषः शिष्टं भिन्नं यस्मादसावशेषः सकलजगदात्मकस्त्वमिति परिहारः । अथ च-बलभद्रोप्यतिश्टङ्गारित्वाद्धद्यगन्धवहः । अत एव भोगवतीनां सुखिनीनां गोपिकादीनामीशः प्राणप्रियः, अथ च-भोगवत्या अतितरां सुखिन्या रेवत्या ईशः पतिः। श्रीकृष्णोपि हृद्यं गन्धं शारीरं स्वाभाविकं चन्दनादिजन्यं च गन्धं वहन्तीनां सुखिनीनां भोगवतीनां गोपिकादीनामीशः । शेषोऽपि जलक्रीडाक्षालितचन्दनकर्पूराद्यङ्गरागसंबन्धिहृद्यसौरभधारिण्या भोगवत्याः पातालनद्याः पतिः। कर्पूरादिबहुलसौरभयुक्ताया नागनगर्या वा । तृप्तिहेतुत्वाद्धृद्यो गन्धवहो वायुर्यस्य स चासौ नागपुर्या नद्या वा पतिः। तथा कृष्णरूपस्त्वं भोगस्य सुखस्य भूतेर्हेतोर्मदिरावद्रुचिं सुखं राति जनयति तादृशी श्रीः कायकान्तिर्यस्य सः। भोगः शेषफणः, तत्कायो वा स एव भूः स्थानं तस्या ऊतिरवनं स्वाधिष्ठानेन रक्षणं तेन माद्यति हृष्यतीति भोगभूतिमत् । तथा--इराया भूमेरिव रुचिरा रमणीया कान्तिर्यस्मादिति वा । तयोरुभयोः सपत्योरपि प्रीतिं ददाना समवर्तिनी श्रीर्हदिस्था लक्ष्मीर्यस्येति वा । भोगानां कालीयफणानां भूतिरैश्वर्यजनितो दर्पस्तं मथ्नाति तादृशो वा । पृथग्वापदम्। गोपिकादिसंभोगसुखसमृद्धिर्भोगभूतिस्तद्वांश्चासावुक्तरीत्या इरारुचिरश्रीश्चेति वा । अथ च-बलभद्ररूपस्त्वं भोगस्य सुखस्य भूतिरुत्पत्तिहेतुस्तादृशी मदिरा तया कृत्वा रमणीया सरागा कान्तिः शोभा यस्य । बलदेवो हि सर्वदा मदिरामत्तः । अथ च- शेषरूपस्त्वं भोगस्य स्वकायस्य फणानां वा भूतिः समृद्धिस्तद्वानतिदीर्घमहाकायः सहस्रफणो वा तेन माद्यति वा । स चासौ स्वशिरःसु धारणाद्भूमे रुचिं ददाना कायकान्तिर्यस्य सः । तथा-कृष्णरूपस्त्वम् उल्लसन्ती कुमुदबन्धोश्चन्द्रस्य संबन्धिनी रुचिः प्रीतियस्मिन् सर्वाह्लादकारित्वाञ्चन्द्र इव सर्वप्रेमास्पदभूतमित्यर्थः । कुमुद् श्वेतं कैरवं तस्याबन्धुस्तद्विरोधिनी कृष्णा रुचिः श्रीयस्य जलदश्याम इत्यर्थ इति वा । उल्लसन्ती कुमुदाख्ये वानररूपे सुहृदि प्रीतिर्यस्य रामावतारे इति वा । उल्लसन्ती पृष्ठे दंष्ट्रायां वा कुः पृथ्वी यस्मिन्, मोदत इति मुदः, स चासौ स च । तथा-बन्धुषु बन्धौ बलभद्रे वा प्रीतिर्यस्येति वा उल्लसन्ती कुमुदतुल्ये अतिगौरे बन्धौ बले प्रीतिर्यस्य वा । उल्लसन्ति कुमुदानि येन स चन्द्र एवोद्दीपकत्वाद्वन्धुर्यस्य, अथ च-प्रद्युम्नावतारः कामस्तत्र प्रीतिर्यस्मिन्पुत्रत्वादिति वा । अथ च--बलभद्ररूपस्त्वम् उल्लसन्ती कुमुदस्य बन्धुः कैरवंसदृशी गौरतरा, कुमुदवन्धोश्चन्द्रस्येव वा गौरतरा, कान्तिर्यस्य । उल्लसन्ती कुः पृथ्वी यस्मात्तस्मिन् मुदे सहर्षे बन्धावनुजे श्रीकृष्णे प्रीतिर्यस्य वा । उल्लसत्कुमुदबन्धावुक्तप्रकारेण प्रद्युम्ने प्रीतिर्यस्य बा। अथ च शेषरूपस्त्वम् उल्लसन्ती कुमुदनाम्नि सर्पे सुहृदि प्रीतिर्यस्य । उल्लसन्ती चन्द्रस्येव धवला कान्तिर्यस्य वा । उल्लसन्ती कुमुदस्य चन्द्रस्य बन्धुः सदृशी कान्तियस्य वा। उल्लसत्पृथ्वीकः सहर्षः सुहृत्सु प्रीतिर्यस्य वा । 'कुमुदेऽपि कुमुत्मोक्तम्' इति विश्वः । 'गोत्रा कुः पृथिवी' इत्यमरः । 'भोगः सुखे वधे चाहेः शरीरफणयोर्मतः' इति विश्वः । 'इरा वारिसुराभूमिभारतीषु' इति च । ऊतिः, अवतेः क्तिनि 'ज्वरत्वर-' इति वस्योपधायाश्नोत् । मदिति माद्यतेर्मथ्नातेश्च क्विप् । पक्षे मतुप् । मुदः, इगुपधात्कः ॥