पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९४८
नैषधीयचरिते

 नेति ॥ हे कृष्ण, त्वं नितरां भक्तमपि आपगेयं भीष्मं सशरीरं वरेण प्रसादेन कृत्वा इति विचार्य कारणाद्वा द्यां स्वर्गं नानयः न प्रापितवानसि । इति किस्-स भीष्मः अनेन शरीरेण सुरतं न करिष्यामि, अद्यप्रभृति मम ब्रह्मचर्यमेवेति व्रतविलोपाद् भिया हेतुना दिव्यपि स्वर्गेपि सुरवधूनां रम्भादीनां सुरतज्ञो मा भूत् इति । भक्ततमस्य वरदानेन यद्यपि तेनैव शरीरेण स्वर्गप्रयाणमुचितम् , तथापि तस्य शरीरस्य स्वर्गप्रयाणेपि न कोप्युपयोगः, तेन तच्छरीरस्यातितुच्छत्वात्तच्छरीरं विनाश्य तं स्वर्गमनयत् नतु तच्छरीरसहितस्य प्रापणे तवाशक्तिरिति भावः । यद्वा मुक्त्यपेक्षया स्वर्गभुक्तरप्यतितुच्छत्वात्तच्छरीरं विनाश्य तं मुक्तिमेव प्रापितवानिति हेतुः। आपगेयम्, अपत्यार्थे 'स्त्रीभ्यो ढक्॥

घातितार्कसुतकर्णदयालुर्जैत्रितेन्दुकुलपार्थकृतार्थः ।
अर्धदुःखसुखमभ्यनयस्त्वं सास्नुभानुविहसङ्विधुनेत्रः ॥ ८३ ॥

 घातितेति ॥ अर्जुनेन प्रयोज्येन समरे घातितोऽर्कसुतः कर्णस्तस्मिन्विषये दयालुः सकरुणः । तथा-स्वसामर्थ्येन जैत्रितो जेता कृतो दत्तजय इन्दुकुलं सोमवंशभूतः पार्थोऽर्जुनस्तेन कृत्वा कृतार्थः संपादितावतारप्रयोजनः कृतकृत्यत्वात्सहर्षः । अत एव क्रमेण पुत्रशोकवशात्सास्नुः सबाष्पो रुदन् यः भानुः सूर्यः, पुत्रविजयाञ्च विशेषेण हसन् हर्षानुभवं कुर्वन् विधुश्चन्द्रस्तावेव दक्षिणवामे नेत्रे यस्यैतादृशस्त्वं यथाक्रमम् अर्धदुःखं अर्धसुखं च अभ्यनयः अभिनयेन युगपद्दर्शितवानसि । परमार्थतो विद्यमानमप्यविद्याविलासाहहिर्नाटितवानसीत्यर्थः । सूर्यचन्द्रयोर्विष्णुनेत्रत्वात्कर्णस्य च सूर्यपुत्रत्वात्तन्नाशे शोकात्सूर्यस्य साश्रुत्वात् , अर्जुनस्य च सोमवंशस्थत्वाद्विजये चन्द्रस्य हर्षेण विहसितत्वात्, ताभ्यामर्धदुःखसुखाभिनयादद्भुतरूपोसीति भावः । धातितेति हेतुमण्ण्यन्तान्निष्टा । जैत्रितेति, 'तत्करोति-' इति ण्यन्तान्निष्ठा । पार्थेति कुरुत्वात् 'ऋष्यन्धक-' इत्यण् । अर्धं च तद्दुःखसुखं चेति द्वन्द्वगर्भः कर्मधारयः ॥

प्राणवत्प्रणयिराध न राधापुत्रशत्रुसखिता सदृशी ते ।
श्रीप्रियस्य सदृगेव तव श्रीवात्समात्महृदि धर्तुमजस्रम् ॥ ८४ ॥

 प्राणेति ॥ प्राणवत् प्राण इव प्रणयिनी निरुपाधिपरप्रेमास्पदं राधाख्या गोपिका यस्यैवंभूत श्रीकृष्ण, ते तव राधापुत्रः कर्णस्तस्य शत्रुरर्जुनस्तस्य सखिता मैत्री सदृशी योग्या न । राधावल्लभस्य हि राधापुत्रशत्रुमैत्री कथंकारमुचिता, अपित्वयुक्तैव विरोधादित्यर्थः। एकत्र राधा गोपिका, अन्यत्र तु कर्णपालनकारिणी कैवर्तवधूरिति परिहारः। श्रियः प्रियस्य श्रीर्वल्लभा यस्य तस्य तव श्रीवत्सं ब्राह्मणपदन्यासरूपं लाञ्छनम्, अथच--श्रियो वत्सं पुत्रम्, अजस्रमात्महृदि धर्तुं सहगेव उचितमेव । यस्य हि श्रीवल्लभा, स तत्पुत्रं स्ववक्षसि सदा बिभर्तीति युक्तमेवेत्यर्थः । एतादृशः स्वपक्षपातदक्षो लोकशिक्षार्थं ब्राह्मणभक्तिपरश्च कोपि नास्तीति भावः । प्रणयिराधेति 'स्त्रियाः पुंवत्' ॥