पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
'९४१
एकविंशः सर्गः।

 एवं वामनेनोक्ते बलिः पुनराह-

आशयस्य विवृतिः क्रियते किं दिन्सुरस्मि हि भवञ्चरणेभ्यः ।
विश्वमित्यभिहितो बलिनास्मान्वामन प्रणतपावन पायाः॥६५॥

 आशयस्येति । हे वामन, प्रणतपावन, बलिना इति पूर्वोक्तप्रकारेणाभिहित उक्तस्त्वमसान् पाया रक्ष । इति किम्-भो वामन, त्वया शयस्य पाणोर्विवृतिः प्रसारणं किं क्रियते, अपितु तन्न कर्तव्यम् । आशब्दोऽयोग्यतया शिरःकम्पपूर्ववारणाभिनये । अनुचितमेतन्न कर्तव्यमित्यर्थः । आ सामस्त्येन नितरां शयस्य विवरणं किं क्रियते । अपितु तन्न कर्तव्यमिति वा । वाक्यपूरणे वा । हि यस्माद्भवञ्चरणेभ्यः पूज्येभ्यो भवद्भयो विश्वं सकलं हेमरत्नादि वा दित्सुर्दातुमिच्छुरस्मि । चरणशब्दः पूज्यार्थः । अहं सर्वमिदानीमेव ददामि किमिति पाणिप्रसारणेनैतदधैर्यं प्रकटीक्रियत इत्यर्थः। अथच--सहस्रपात्त्वाहहुभ्यो भवदीयपादेश्यः सर्वं दित्सुरस्मि सर्वस्वदानेन भवञ्चरणान् पूजयिष्यामि । तस्मात्करप्रसारणं किं क्रियते ॥

 क्ष्कत्रयेण [१] परशुरामं स्तौति-

क्षत्त्रजातिरुदियाय भुजाभ्यां या तवैव भुवनं सृजतः प्राक् ।
जामदग्न्यवपुषस्तव तस्यास्तौ लयार्थमुचितौ विजयेताम् ॥ ६६ ॥

 क्षत्त्रेति ॥ हे भगवन्, तव तौ भुजौ विजयेतां सर्वोत्कर्षेण वर्तेताम् । तौ कौ–प्राक् सृष्ट्यादौ भुवनं सृजतो ब्रह्मरूपिणस्तवैव 'बाहू राजन्यः कृतः' इति श्रुतिप्रामाण्याद्भुजाभ्यां सकाशाद्या क्षत्त्रजातिः क्षत्त्रियमात्रमुदियायोत्पन्नम् । तस्याः क्षत्त्रजातेर्लयार्थं क्षयार्थं जामदग्न्यवपुषस्तव तौ (यौ) भुजौ उचितौ । कारणे कार्यलयस्यौचित्यात् । 'अद्योऽग्निब्रह्मतः क्षत्त्रमश्मनो लोहमुत्थितम् । एषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥' इति भारतवचनाच्च । अवतारप्रयोजनमुक्तम् । जातेर्नित्यत्वादुत्पत्तिविनाशावयुक्ताविति ये आक्षिपन्ति, ते आविर्भावतिरोभावयोर्विवक्षितत्वेनोत्तरणीयाः । वेदान्तसिद्धान्ते जातेर्नित्यत्वाभाव इत्यपि । जामदग्न्येति गर्गादिषु: पाठसामर्थ्याद्यञिति ज्ञेयम् । विजयेतां, 'विपराभ्यां जेः' इति तङ् ॥

पांसुला बहुपतिर्नियतं या वेधसारचि रुषा नवखण्डा ।
तां भुवं कृतवतो द्विजभुक्तां युक्तकारितरता तव जीयात् ॥ ६७॥

 पांसुलेति ॥ नियतं सर्वदा पांसुला धूलिबहुला बहवो मन्वादयः पतयो यस्याः सा मन्वादिभिः पालिता च या भूर्वेधसा रुषेव नवखण्डा भरतादिनवसंख्याविभागा अरचि निर्मिता, तां नवखण्डामपि सकलां भुवं द्विजभुक्तां काकादिपक्षिभिः कृतोपभोगां व्याप्ताम् । अथ च-ब्राह्मणैर्गृहीतफलां कृतवतस्त्रि:सप्तकृत्वः क्षत्त्रियमात्रं हत्वा निष्कण्टकीकृत्य प्रतिवारं ब्राह्मणेभ्यो ददतस्तव युक्तकारितरता नितरामुचितकरणशीलता


  1. "द्विश्लोक्या परशुरामं स्तौति' इति सुखावबोधा