पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७३
द्वितीयः सर्गः

तर्क्यत इत्यर्थः । कलङ्केन हृतसारत्वमुत्प्रेक्षितम् । किंभूतम्-धृतो गम्भीरखन्यां निम्नगर्ते परभागस्थितस्य खस्याकाशस्य नीलिमा येन । कलङ्को न भवति, किं त्वाकाशनीलिमा । भैमीमुखं निष्कलङ्कचन्द्रसारतुल्यमिति भावः । वदनाय 'क्रियार्थोपपदस्य च-' इति चतुर्थी । खनीति 'कृदिकारादक्तिनः' इति ङीष् ॥ प्रकारान्तरेण भैमीमुखस्य चन्द्राधिक्यमाह-

धृतलाञ्छनगोमयाञ्चनं विधुमालेपनपाण्डुरं विधिः ।
भ्रमयत्युचितं विदर्भजानननीराजनवर्धमानकम् ॥२६॥

 धृतेति ॥ ब्रह्माज्ञया चन्द्रो भ्राम्यति । तत्रोत्प्रेक्षते । विधिर्ब्रह्मा विधुं चन्द्रमुचितं योग्यं विदर्भजा भैमी तस्या आननं तस्य नीराजनार्थमारार्तिकार्थं वर्धमानकमिव वर्धमानकं शरावं भ्रमयति । किंभूतं विधुम्-धृतं लाञ्छनमेव कलङ्क एव गोमयाञ्चनं गोमयपूजनं येन । तथा—आलेपनं पिष्टोदकम् ('अईपण' इति लोके प्रसिद्धं) तेनैव पाण्डुरम् । चन्द्रस्तन्मुखसादृश्यं न प्रापेति भावः । गोमयलिप्तेन चूर्णादिचिह्नेन शरावेण दृष्टिदोषनिरासार्थं नीराजना क्रियत इति लोकाचारः। 'शरावो वर्धमानकः' इत्यमरः॥

सुषमाविषये परीक्षणे निखिलं पद्ममभाजि तन्मुखात् ।
अधुनापि न भङ्गलक्षणं सलिलोन्मजनमुज्झति स्फुटम् ॥२७॥

 सुषमेति ॥ कमलस्य शोभाधिका, भैमीवदनस्य वेति सुषमाविषये परमशोभाविषये परीक्षणे दिव्येन शोधने निखिलं समस्तं पद्मं पद्मजातं तन्मुखाद्भैमीमुखादभाजि पराजयं प्राप्तम् । यतः-भङ्गलक्षणं पराजयचिह्नं सलिलोन्मज्जनं जलादुन्मज्जनमूर्ध्वभवनमद्यापि नोज्झति स्फुटं व्यक्तमेव न त्यजति । स्फुटमुत्प्रेक्षे वा । जलोन्मज्जनं तस्य स्वाभाविकं भङ्गलक्षणत्वेनोत्प्रेक्षितम् । स्फुटं विकसितमिति पद्मविशेषणं वा । जलदिव्ये धनुर्धरमुक्तं बाणमादाय यावदन्यो धावन्नागच्छति तावद्यः सलिले निमग्न एव तिष्ठति स विजयते, यस्तु ततः पूर्वमेवोन्मज्जति स पराजयत इति भावः । 'सुषमा परमा शोभा' इत्यमरः। 'सुविनिर्दुर्भ्यः-' इति षत्वम् । अभाजीति कर्मकर्तरि चिण् 'भञ्जेश्च चिणि' इति नलोपः ॥

धनुषी रतिपञ्चबाणयोरुदिते विश्वजयाय तद्र्भुXवौ ।
नलिके न तदुच्चनासिके त्वयि नालीकविमुक्तिकामयोः ॥२९॥


१ 'अत्रोत्प्रेक्षालंकारः, अनुप्रासश्च' इति साहित्यविद्याधरी । 'अत्र कलङ्कापह्नवेन खनीलिमारोपादपह्नवभेदः । स च कृतमध्यबिलमित्येतत्पदार्थहेतुककाव्यलिङ्गानुप्राणितः । तदपेक्षा चेयं हृतसारमित्युत्प्रेक्षेति संकरः। तया चोपमा व्यज्यत इति पूर्ववद्ध्वनिः' इति जीवातुः। २ 'अत्र रूपकं समं चालंकारः। तथा चोक्तम् 'उपमैव तिरोभूतभेदा रूपकमिष्यते । समं योग्यतया योगो यदि संभावितः क्वचित् ॥' इति साहित्यविद्याधरी । 'अत्र विधुतल्लाञ्छनादेर्नीराजनशरावगोमयत्वादित्वेन रूपणात्सावयवरूपकम्' इति जीवातुः । ३ 'अत्रानुमानमतिशयोक्तिरलंकारौं' इति साहित्यविद्याधरी । 'उन्मज्जनक्रियानिमित्तेयं भङ्गोत्प्रेक्षा' इति जीवातुः। १०