पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९३६
नैषधीयचरिते


तदीयगृहस्योर्ध्वदेशे स्थापयन् कण्डाश्लेषं च कुर्वंस्तस्या गौरवं करोति । तथा विष्णोर्वक्षसि लक्ष्मीस्तिष्ठति, तदुपरिभागे कण्ठे सरस्वतीति विष्णोः सरस्वत्यां गौरवमधिकमिति ज्ञात्वा सरस्वत्या कृत्वा स्तुतिं चक्र इत्यर्थः । मौक्तिकरूपणेन सूक्तेर्नैर्मल्यं सूच्यते स्तुत्या नलस्य भक्त्यतिशयश्च ॥

 स्वमौद्धत्यं परिहरन्स्तुतिमाह-

दूरतः स्तुतिरवाग्विषयस्ते रूपमस्मदभिधा[१] तव निन्दा ।
तन्क्षमस्व यदहं प्रलपामीत्युक्तिपूर्वमयमेतदवोचत् ॥ ५३॥

 दूरत इति ॥ अयं नल इति उक्तिपूर्वं यथा तथा पूर्वमेवमुक्त्वा एतद्वक्ष्यमाणमवोचत् । इति किम्-हे स्वामिन् , ते तव स्तुतिर्दूरतो नितरामवाग्विषयो वाचामगोचरः। यतस्तव रूपं 'यतो वाचो निवर्तन्ते-' इत्यादिश्रुतेः । अर्थाद्गोचरो नेति त्वदीया स्तुतिः कथंकारं कर्तुं शक्या। स्वरूपकथनेऽप्यशक्यत्वात्तव स्तुतिरप्यशक्यकरणैवेत्यर्थः। अतएव-अस्माभिः कृता अभिधा भवद्गुणवर्णनविषया वाणी तव निन्दैव । अत्यन्ताल्पकस्तावकत्वात्, अवाग्गोचरस्यापि वाग्गोचरकरणाच्चेत्यर्थः । एवंसत्यपि मूर्खतया यदहं प्रलपामि स्वरूपाशानान्निरर्थकं वदामि तत् क्षमस्वेति । प्रलपामीत्यनेन नितरामनौद्धत्यं सूचितम् ॥

स्वप्रकाश जड एष जनस्ते वर्णनं यदभिलष्यति कर्तुम्।
नन्वहर्पतिमहः प्रति स स्यान्न प्रकाशनरसस्तमसः किम् ॥ ५४॥

 स्वेति ॥ हे स्वप्रकाश सूर्यादिवत्प्रकाशान्तरनिरपेक्ष परमात्मन् , एष मल्लक्षणोजडोऽविद्याच्छादितचैतन्यो जनस्ते वर्णनं कर्तुं यदभिलष्यति सोऽहर्पतेः सूर्यस्य महस्तेजः प्रति लक्षीकृत्य सूर्यतेजोऽहं प्रकाशयिष्यामीति तमसोऽन्धकारस्य प्रकाशने रसोऽनुरागः किं न स्यात्, अपितु स्वप्रकाशस्य तव वर्णने जडस्य ममाभिलाषः सूर्यतेजःप्रकाशने तमसोऽभिलाष इवात्यन्तमनुचित एवेत्यर्थः । आत्मा स्वप्रकाश इति वेदान्तसिद्धान्तः॥

 ननु यदि त्वं जडो मदीयस्वरूपं न जानासि, तर्हि त्वदीये वाङ्मनसे कथं मत्परा यणे इत्याशङ्कां परिहरन् स्तुत्यवसरं दातुमाह-

मैव वाङ्मनसयोर्विषयो भूस्त्वां पुनर्न कथमुद्दिशतां ते ।
उत्कचातकयुगस्य घनः स्यात्तृप्तये घनमनाप्नुवतोपि ॥ ५५ ॥

 मैवेति ॥ हे भगवन्, त्वं 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।' इत्यादिश्रुति- प्रामाण्याद्वाङ्मनसयोर्विषयो गोचरो मैव भूः ताभ्यां ग्रहीतुं न शक्यः स एव यद्यपि, तथापि ते वाङ्मनसे पुनस्त्वां कथं नोद्दिशताम्, अपितु अविषयमपि त्वामुद्दिश्य प्रव- र्तेतामित्यर्थः । दृष्टान्तमाह-अतिदूरवर्तित्वात् घनं मेघमनाप्नुवतोऽलभमानस्याप्युत्क-


  1. 'अभिवाः' इति बहुवचनान्तपाठः सुखावबोधासंमतः ।