पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९३५
एकविंशः सर्गः।


इत्यादिविष्णुसूक्तजपशीलस्यास्य नलस्य करसंकरं पाणिपद्मसंबन्धमेत्य प्राप्य पुनरपि पद्मरूपे सद्मनि स्वगृहे चिरं वासः स्थितिस्तेन कृत्वा यो विलासः शोभा तमापत्प्राप। विष्णुमन्त्रा हि पद्माक्षमालया जप्यन्ते, नलकरश्च पद्मसदृशः, तत्संबन्धात्पद्माक्षमाला पुनरपि पद्मसद्मनिवासं प्राप्तं वेति प्रतीयमानोत्प्रेक्षा । 'पुष्कराम्भोरुहाणि च' इत्यमरः । जपितुः, ताच्छील्ये तृनि 'द्वितीया' इति योगविभागात्पूर्वेण समासः॥

कैटभारिपदयोर्नतमूर्ध्ना सञ्जिता विचकिलस्रगनेन ।
जह्नुजेव भुवनप्रभुणाऽभात्सेवितानुनयतायतमाना ॥ ५०॥

 कैटभेति ॥ अनुनयता अर्थान्मामेवं चरणसमीपंप्रापयताभुवनप्रभुणा लोकनाथेन नतमूध्ना नम्रशिरसा प्रणामलक्षणं षोडशमुपचारं कुर्वताऽनेन नलेन कैटभारेः श्रीविष्णोः पदयोः सञ्जिता पुष्पाञ्जलित्वेन समर्पिता आयतमानाऽतिदीर्घा विचकिलस्रक् मल्लिकामाला जह्नुजा गङ्गेवाभात् । चरणसंबन्धादतिदैर्घ्याद्धिवलतरत्वाञ्च गङ्गेव शुशुभ इत्यर्थः। साऽप्येवंविधा । (अथच-) अन्यापि मानिनी नायिका एवंविधा प्रियेणैवमनुनीयते । अथच-भूलोकं प्रति गमनार्थं यतमाना सप्रयत्ना,अतएव-अनु पश्चान्नयता परावर्त्य पुनरपि ब्रह्मलोकं प्रापयता पुनरत्रागन्तव्यमिति प्रार्थयमानेन नतमूध्ना लोकनाथेन ब्रह्मणा सेविता जाह्नवीव । भुवनप्रभुणा रुद्रेण वा । उक्तविशेषणविशिष्टेन जलप्रभुणा वरुणेन समुद्रेण वा सेवितेति वा । प्रणामान्तां षोडशोपचार पूजां समापयदिति भावः । 'स्मृतो विचकलो मल्लीप्रभेदे मदनेपि च' इति विश्वः॥

स्वानुरागमनघः कमलायां सूचयन्नपि हृदि न्यसनेन।
गौरवं व्यधित वागधिदेव्याः श्रीगृहोर्ध्वनिजकण्ठनिवेशात् ॥५१॥
इत्यवेत्य वसुना बहुनापि प्रा[१]प्नुवन्न मुदमर्चनया सः ।
[२] सूक्तिमौक्तिकमयैरथ हारैर्भक्तिमैहत हरेरुपहारैः ॥ १२ ॥

 स्वेति ॥ इतीति ।। युग्मम् ॥ स नल इति पूर्वोक्तं श्रीविष्णोरभिप्रायमवेत्य ज्ञात्वा बहुनापि वसुना स्वर्णमणिवसनादिना लक्ष्मीस्थानीयेन समर्पितेन कृतयाऽर्चनया मुदं न प्राप्नुवन् हर्षमलभमानः सन् , अथ पश्चात्सूक्तयः सरसशोभनपदबन्धास्तद्रूपाणि मौक्तिकानि तन्मयैर्हारैरेकावल्यादिहारैरेवोपहारैः पूजनैः कृत्वा हरेर्भक्तिमैहताकृतेत्यर्थः । सम्यग्वैदिकं पूजनं कृत्वा श्रीपुरुषोत्तमदशावतारादिस्तुतिं प्रारेभ इति भावः । इति किम्-न विद्यते अघं दुःखं पापं दारिद्र्यं च यस्माद्धेतोःसोऽनघः पुण्यश्लोकःश्रीविष्णुः हृदि न्यसनेन स्थापनेन कृत्वा कमलायां लक्ष्म्यां विषये स्वस्यानुरागं प्रेमभरं तां प्रति लोकं प्रति वा सूचयन्नपि श्रीगृहान्निजहृदयादूर्ध्व उपरिभागे वर्तमानो निजकण्ठस्तत्र निवेशात्स्थापनाद्धेतोर्वागधिदेव्याः सरस्वत्या गौरवं व्यधित बहु संमानमकृत । अन्योपि राजादिरेकां प्रियामधोभागे स्थापयन्नालिङ्गनादिना संभावयन्नन्यां तत्सपत्नीं प्रियतमां


  1. ‘प्राप्तवानित्यपि पाठे-नलविशेषणम्' इति सुखावबोधा
  2. सूक्तेति पाठः सुखावबोधासंमतः