पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९३४
नैषधीयचरिते


श्रद्धापरो बलिर्वैरोचनिर्यस्य, एवंभूतोऽभूत् । तथा-नलसमर्पितेन हारिणमदेन कस्तूर्या कृष्णवर्णः, अथ च-कृष्णनामा, अभूत् । तथा–हेमरूप्यादिबद्धदक्षिणावर्तादिशङ्खानां चक्रं समूहस्तत्र स्थितेन जलेन कृत्वा या पूजा अभिषेकार्घदानादिरूपा तया कृत्वा शङ्खचक्रजलेन जातवती संपन्नार्चा पूजा यस्य, अथ च-शङ्खः पाञ्चजन्यः, चक्र सुदर्शनः, जलाज्जतं पद्मं, तानि विद्यन्ते यस्यास्तादृशी शङ्खचक्रपद्मयुक्ता अर्चा प्रतिमा यस्यैवंविधोऽभूत् । पुरुषोत्तमसंबन्धिनामेतेषां शब्दानामन्वर्थत्वमेव तत्कृतान्ननैवेद्यादिसमर्पणेनेदानीमभूदित्यर्थः । एतन्निबन्धना एवास्यैताः संज्ञा इति वा । अत्र प्रतीयमानोत्प्रेक्षा । 'प्रतिकृतिरर्चा पुंसि-' इत्यमरः । नाल्पेति नकारसमासः । हारिणेति संबन्धेऽण् ॥

राज्ञि कृष्णलघुधूपनधूमाः पूजयत्यहिरिपुध्वजमस्मिन् ।
निर्ययुर्भवधृता भुजगा भीदुर्यशोमलिनिता इव जालैः ॥ ४७ ॥

 राज्ञीति ॥ कृष्णलघुः कृष्णागुरुस्तस्य धूपनधूमा धूपकरणसंबन्धिनो धूमा अस्मिन् राशि नले अहिरिपुर्गरुडो ध्वजे यस्य तं गरुडध्वजं पुरुषोत्तमं धूपोपचारेण पूजयति सति जालैर्गवाक्षर्बहिनिर्ययुः। उत्प्रेक्षते-भीरेव दुर्यशो (१) गरुडासत्तिभयजन्येनायशसा स्वतो धवलतरा अपि मलिनिताः श्यामीकृताः देवतागारस्थितेन भवेन हरेण स्वदेहे भूषणत्वेन धृता वासुकिप्रमुखा भुजगा इव । अयमस्मद्रिपुकेतुं पूजयति, अतो रिपुनिकटे स्थातुमशक्यमिति हराश्रिताः शवला अपि सर्पा भीदुर्यशोमलिनिता इव दण्डायमानकृष्णधूमव्याजेन जालैर्निर्ययुरित्यर्थः । अन्योऽपि भीतिमलिनो जालादिद्वारेण बहिर्निगच्छति । 'धूपज-' इत्यपि पाठः । अगुरुपर्यायो लघुशब्दः। तेन कृष्णागुरुरित्यर्थः।

अर्धनिःस्वमणिमाल्यविमिश्रैः स्मेरजातिमयदामसहस्रैः ।
तं पिधाय विदधे बहुरलक्षीरनीरनिधिमग्नमिवैषः ॥ ४८ ॥

 अर्धेति ॥ एष नलः अर्घेण मूल्येन निःस्वा दरिद्रास्तेषामत्युत्तमानां मणीनां माल्यैर्मालाभिर्विमिश्रैः स्मेरजातिमयदामसहस्रैर्विकसितमालतीकुसुममालासहस्रेस्तं पुरुषोत्तमं पिधायाच्छाद्यैव बहूनि रत्नानि यस्मिन्नेवंभूतो यः क्षीरनीरनिधिर्दुग्धसमुद्रस्तत्र मग्नमिव विदधे चकार । मध्ये मध्ये मणिमालाभिर्मध्येमध्ये पुष्पमालाभिः संवेश्य बहुरत्लक्षीरसमुद्रशायिनमिव चकारेत्यर्थः रत्नस्थाने रत्नान्येव,क्षीरस्थाने च तानि दामानि, तैराशिखं पर्यपूपुजदिति भावः । समृद्ध्यतिशयो भक्तयतिशयश्च सूचितः । बहूनि रत्नानि क्षीराणि च यस्मिन्, स चासौ नीरनिधिश्चेति वा ॥

अक्षसूत्रगतपुष्करबीजश्रेणिरस्य करसंकरमेत्य ।
शौरिसूक्तजपितुः पुनरापत्पद्मसद्मचिरवासविलासम् ॥ ४९ ॥

 अक्षेति ॥ अक्षसूत्रं जपमालां गतानि प्राप्तानि तत्र वर्तमानानि पुष्करबीजानि कमलबीजानि तेषां श्रेणिः पद्माक्षरचिता जपमालिका शौरिसूक्तजपितुः 'विष्णोर्नु कम्-'