पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७२
नैषधीयचरिते

इति वा । सविलासवीक्षणदशायाः पूर्वमेव नीलोत्पलं जितमित्यर्थः । तथा-असंकुचती सती पृषतीं हरिणीं श्यामं नलिनं नीलोत्पलं रुचिगर्वदुर्विधं विदधाते। निर्निमेषत्ववेलायामपि ताभ्यां हरिणी जिता, किं पुनः कटाक्षविक्षेपवेलायामिति वा। अस्मिन्पक्षे दुविधा च दुर्विधश्चेति 'नपुंसकमनपुंसकेन-' इति नपुंसकै(कशेषै)- कवद्भावौ । अज्यतेऽनेनेत्यञ्जनम् तेन पूजिते इत्यनेन ल्युडन्तस्य 'अञ्जू व्यक्ति (गतिकान्ति )म्रक्षणेषु' इति धातोरर्थानुसारेण दृशोः स्निग्धनीलरक्तसितवर्णकान्तिचाञ्चल्ययोगः सूचितः। तथाच नलिनादिषु मध्ये क्वचित्कस्यचिद्गुणस्य सत्त्वादृXशोस्तु पूर्वोक्तगुणसद्भावात्ताभ्यां नलिनादीनि जितानीति भावः । 'मलिनं दूषिते कृष्णे' इति विश्वः । अञ्चिते 'अञ्चेः पूजायाम्' इतीटि 'नाञ्चेः पूजायाम्' इति नलोपनिषेधः । अञ्जनाञ्जिते इति पाठे 'अजि भासि' इति चौरादिकस्याञ्जयतेर्निष्ठा । अञ्जनेन भासिते


अधरं किल बिम्बनामकं फलमस्मोदिति भव्यमन्वयम् ।
लभतेऽधरबिम्बमित्यदः पदमस्या रदनच्छदं वदत् ॥ २४ ॥

 अधरमिति ॥ हे राजन्, अस्या दमयन्त्या रदनच्छदमधरमोष्ठं वददभिदधत् अधरबिम्ब इत्यदःपदमेतत्पदं सुबन्तोऽयं शब्द इत्यतो हेतोर्भव्यं समीचीनमन्वयं संबन्धं लभते प्राप्नोति । इतीति किम्-किल यस्माद्रिXम्बनामकं फलमस्मादोष्ठादधरं हीनम् । बिम्बापेक्षयास्याधिकरक्तत्वादमृतयुक्तत्वाच्च अधरं बिम्बं बिम्बसंज्ञकं फलं यस्मादधरबिम्ब इति बहुव्रीहिः, न त्वधर एव बिम्बमिति । अन्यासां तु अधरो बिम्ब इवेति तत्पुरुषः कर्मधारयः। एतस्यास्तु बहुव्रीहौ अर्थतः शब्दतश्च भव्यत्वम् । भैम्यधरो जितबिम्ब इति भावः॥

हृतसारमिवेन्दुमण्डलं दमयन्तीवदनाय वेधसा।
कृतमध्यबिलं विलोक्यते धृतगम्भीरखनीखनीलिम ॥ २५ ॥

 हृतेति । इन्दुमण्डलं चन्द्रबिम्बं वेधसा ब्रह्मणा दमयन्तीवदनाय भैमीमुखं निर्मातुं हृतसारमिव गृहीतश्रेष्ठभागमिव कृतं मध्ये बिलं छिद्रं यस्यैवंभूतं विलोक्यते दृश्यते


 १ 'अत्र छेकानुप्रासोऽतिशयोक्तिरलंकारः' इति साहित्यविद्याधरी । 'ईक्षणयोर्नलिनमलिनीकरणाद्यसंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः तया चासमा व्यज्यतेलंकारेणालंकारध्वनिः' इति जीवातुः। २-३ 'आभ्याम् रदनच्छदे' इति द्विवचनान्तपाठः साहित्यविद्याधरीसंमतः । यतो व्याख्यातम् रदनच्छदे ओष्ठौ वदत् प्रतिपादयत् । रदनच्छदशब्दस्य नपुंसकत्वम् । यदुक्तं प्रतापमार्तण्डाभिधानकोषे–'गरुत्पक्षश्छदोऽस्त्रियाम्' इति। 'आभ्याम् रदनच्छदे' इति पाठस्तु सर्वथाऽशुद्धः 'ओष्ठोऽधरो रदच्छदः' इति पुंलिङ्गनिर्देशात्' इति सुखावबोधा । 'आभ्याम्' इति पाठे रदनच्छदौ वददिति युक्तः पाठः । छदशब्दस्य पुंलिङ्गत्वात् 'दलं पर्णं छदः पुमान्' इत्यमरः' इति तिलक-व्याख्यायामभिहितम् । रदनच्छदे वदन् ‘वद स्थैर्ये' स्थिरीभवन्निति सप्तम्यन्तपाठाङ्गीकारश्च । ४ 'अत्रोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी । 'अत्र दमयन्तीदन्तच्छदस्य

बिम्बाधरीकरणासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः । पूर्ववद् ध्वनिः । इति जीवातुः