पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९२५
एकविंशः सर्गः।


सम्यगस्य जपतः श्रुतिमन्त्राः संनिधानमभजन्त कराब्जे ।
शुद्धबीजविशदस्फुटवर्णाः स्फाटिकाक्षवलयच्छलभाजः ॥ १९ ॥

 सम्यगिति ॥ श्रुतिमन्त्राः सम्यग्जपतः सावित्र्यादिमन्त्रमावृत्त्योपांशूच्चारयतोऽस्य कराब्जे संनिधानमलभन्त । किंभूताः-शुद्धैरागमोक्तक्रमोच्चारणनिर्मलैर्वह्निवारुणादिबीजैः कृत्वा विशदाः स्फुटा मात्रादिसाकल्योच्चारणेनासंदिग्धा वर्णा अक्षराणि येषु, अथ च-शुद्धेषु त्रासादिदोषरहितेषु बीजेषु स्फटिकगुटिकासु विशदो धवलः प्रकटो वर्णः कान्तिर्येषाम् । यद्वा-निर्दोषस्फाटिकबीजान्येव धवलाः प्रकटा वर्णा अक्षराणि येषु । तथा-स्फाटिकाक्षाणां वलयस्य मालायाश्छलं भजन्ति ते, तदाकारेण परिणताः । भक्त्यतिशयान्मूर्तीभूय तत्पाणिपद्मे वसन्ति स्मेत्यर्थः । उपस्थानानन्तरं सावित्रीजपं च कृतवानिति भावः॥

पाणिपर्वणि यवः पुनराख्यद्देवतर्पणयवार्पणमस्य ।
न्युप्यमानजलयोगितिलौधैः स द्विरुक्तकरकाल[१]तिलोभूत् ॥२०॥

 पाणीति ॥ अस्य पाणिपर्वणि हस्ताङ्गुलीनां ग्रन्थौ काण्डे वर्तमानो यवाकारः सासुद्रकलक्षणभूतशुभरेखाविन्यासरूपो यवो देवतर्पणजले यवार्पणं कर्मीभूतं पुनरुक्तमाख्यत् । अकरोदित्यर्थः । देवतर्पणं हि यवैः क्रियते, ते चाङ्गुलीपर्वसु पूर्वमेव वर्तन्ते, एतावतैव पौनरुक्त्यम् । तथा न्युप्यमानेन पितृभ्यो दीयमानेन जलेन योगिभिः सह क्षिप्यमाणैः कृष्णतिलौधैः कृत्वा स नलो द्विरुक्तः पुनरुक्तः, करकालतिलः करकमलमध्यवर्ती सामुद्रकलक्षणभूतः सूक्ष्मकालतिलाकारोऽङ्को यस्य तादृशोऽभूत् । पितृतर्पणं हि तिलैः क्रियते । स च तिलो हस्तमध्ये वर्तत एवेति पौनरुक्त्यम् । ब्रह्मयज्ञोऽपि तेनाकारीति भावः । आद्यन्तयोर्देवपितृतर्पणोक्तेर्मध्ये वर्तमानमृषितर्पणं कृतमिति ज्ञेयम् । न्युप्यमानं, यजादित्वात्संप्रसारणम् ॥

पूतपाणिचरणः शुचिनोच्चैरध्वनानितरपादहतेन ।
ब्रह्मचारिपरिचारि सुरार्चावेश्म राजन्नृषिरेव विवेश ॥२१॥

 पूतेति ॥ एष राजा चासौ ऋषिर्मुनिधर्माचरणशीलो नलो देवपूजागृहप्रवेशौचित्यार्थं पूतं जलक्षालितं पाणिचरणं येनैवंभूतः सन् शुचिना गोमयोपलिप्तेन पवित्रेण, तथान(इ)तरस्य नलातिरिक्तस्य पादेन हतेन, अन्यचरणस्पर्शादूषितेनेत्यर्थः । उच्चैरूर्ध्वमध्वना सोपानबद्धमार्गेण, यद्वा-अनितरपादहतेन, अतएवोच्चैर्नितरां शुचिना, ब्रह्मचारिण उपनीता द्विजाः परिचारिणो देवसेवाकारिणो यत्रैवंभूतं सुरार्चावेश्म सुवर्णादिनिर्मितमन्त्रसंस्कृतप्रतिमागृहं देवपूजासंबन्धि वा गृहं विवेश ॥

क्वापि यन्नभसि धूपंजधूमैर्मेचकागुरुभवैर्भ्रमराणाम् ।
भूयते स्म सुमनःसुमनःस्त्रग्दामधामपटले पटलेन ॥ २२ ॥


  1. करतालुतिलोः, करतालतिलोः, करनालतिलोः, इति पृथक्पृथक् पाठोपि ।