पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९१३
विंशः सर्गः।

त्सुतरामग्निदाहे कृतेऽपि दुष्टाशयस्य पूर्वमेव गतत्वात्तस्माद्रजतनिर्गमो न भवत्येव । तथातितापार्जनेऽपि ते मुखाद्दुर्वर्णनिर्गमो नास्त्येवेत्याश्चर्यमित्यर्थः । अत्युत्तमषोडशवर्णकसुवर्णवर्णापरुषभाषिणी चासीति भावः । अपत्रपाकम्, पक्षे 'न कपि' इति ह्रस्वनिषेधः॥

तामथैष हृदि न्यस्य ददौ तल्पतले तनुम् ।
निमिष्य च तदीयाङ्गसौकुमार्यमसिस्वदत् ॥ १४२ ॥

 तामिति ॥ अथैष नलः तां हृदि न्यस्य तल्पतले शय्यायां तनुं शरीरं ददौ । पृष्ठेन शय्यां पस्पर्शैत्यर्थः । तदालिङ्गनसुखवशादेव निमिष्य नेत्रे निमील्य तदीयाङ्गसौकुमार्यमसिस्वददनुबभूव च॥

न्यस्य तस्याः कुचद्वन्द्वे मध्येनीवि निवेश्य च ।
स पाणेः सफलं चक्रे तत्करग्रहणश्रमम् ॥१४३॥

 न्यस्येति ॥ स तस्याः कुचद्वन्द्वे स्वकरं न्यस्य निक्षिप्य, तथा नीवीनां मध्ये च नाभिमूले निवेश्य स्थापयित्वा पाणेः स्वकरस्य तस्याः करग्रहणे (पाणि)विवाहने विषये जातं श्रमं सफलं चके । स्तनजघनादिस्पर्शसुखानुभवादित्यर्थः । एतदेव विवाहफलम् । यत्स्तनादिस्पर्शसुखानुभवनम् । अथ च-तत्प्रसिद्धं करस्य राजोपदायाः ग्रहणं तज्जनितं स्वपाणेः श्रमं सफलं चक्रे । स्तनादिमर्दनराजदण्ड इत्यर्थः। अथ च-स्वपाणेर्भैम्याः करेण यद्ग्रहणं निरोधनं तज्जनितं श्रमं सफलं चक्रे । कुचनीविस्पर्शमात्रेण निर्वृत्तो, न त्वङ्गान्तरे करं निवेशितवान् न च संबुभुजे। एतच्चोत्तरत्र संभोगनिषेधाल्लभ्यते॥

स्थापितामुपरि स्वस्य तां हृदा स मुदा वहन् ।
तदुद्वहनकर्तृत्वमाचष्ट स्पष्टमात्मनः ॥ १४४ ॥

 स्थापितामिति ॥ स मुदा कामाभिलाषेण स्वस्योपरि स्थापितां वक्षसि निवेशितां तां वहन् सुखातिशयाज्जहर्ष स्पष्टमुत्प्रेक्षे । आत्मनस्तस्या भैम्या उद्वहनं विवाहं प्रति, अथ च-ऊर्ध्वधारणं प्रति कर्तृत्वमाचष्टे चेति शब्दच्छलेनोत्प्रेक्षा ॥

स्विद्यत्कराङ्गुलीलुप्तकस्तूरीलेपमुद्रया।
पूत्कार्यपीडनौ चक्रे स सखीषु प्रियास्तनौ ॥१४५ ॥

 स्विद्यदिति ॥ स प्रियास्तनौ स्विद्यन्तीभिः संजातसात्त्विकस्वेदाभिः कराङ्गुलीभिर्लृप्तया कस्तूरीलेपसंबन्धिन्या मुद्रया पत्रवल्लीरचनाविशेषेण कृत्वा सखीषु विषये पूत्कार्यं महाकलकलकथनीयं पीडनं मर्दनं ययोर्याभ्यां वा तौ चक्रे । भैमीकुचयुगले स्वरचितां कस्तूरीपत्रवल्लीरचनां प्रोञ्छितां दृष्ट्वा प्रियेण गाढमेतौ पीडिताविति अन्यो-