पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९१२
नैषधीयचरिते

रूपम् । द्रातेः परस्मैपदित्वादा[१]त्मनेपदं चिन्त्यम् । व्यतिद्रान्ति स्मेति पठनीयम् । इत्युक्ते ते ते उक्तवन्तश्च सर्वे व्यतिद्रान्ति स्मेत्यर्थः ॥

आह स्म तद्गिरा ह्रीणां प्रियां नतमुखीं नलः ।
ईदृग्भण्डसखीकापि निस्त्रपा न मनागपि ॥१४०॥

 आहेति । नलः सुरतार्थं सर्वे वयं निर्वासिता इति सख्योर्गिरा ह्रीणां लज्जिताम्, अत एव-नतमुखीं प्रियामित्याह स्म । इति किम्-ईदृश्योऽश्लीलभाषणशीला भण्डा निर्लज्जाः सख्यो यस्यास्तादृशी कापि (श्यपि का) मनागपि निस्त्रपा निर्लज्जा न, अपितु सखीयुक्ता त्वमेव । 'समानशीलव्यसनेषु सख्यम्' इति न्यायादनुरूपयोर्हि सख्यं युक्तमिति त्वमपि लज्जां मुञ्चेति सकामस्य नलस्य वचः। भण्डसखी कापि ईदृक् कलासदृशी न । त्वं तु मनागपि निस्त्रपा नासीति वा। भण्डस्य निर्लज्जत्वं भवत्येव । सखीका नद्यन्तत्वात्कप् । मनागसीति पाठः । तदावृत्त्याऽपिशब्दो योज्यः ॥

अहो नापत्रपाकं तेजातरूपमिदं मुखम् ।
नातितापार्जनेपि स्यादितो दुर्वर्णनिर्गमः ॥ १४१ ॥

 अहो इति ॥ अहो भैमि, ते इदं मुखं जातं रूपं सौन्दर्यं यस्यैवंविधं सदपत्रपाकं गतलज्जं न भवति किंतु सलज्जमेव । स्त्रीणां तु लज्जैव महद्भूषणमित्यर्थः । नापत्रपाकमिति नसमासेनैकपद्यं वा । अथ च-पत्राणां नागवल्लीदलानां पाकः फलभूतः पूगादियोगसंजातो रागः स नास्ति यस्य तदपत्रपाकं तादृशं न भवति ताम्बूलरागसहितमिति यावत् । अत एव-नितरां जातलावण्यम्, अथ च -सुन्दरमपि नापत्रपाकं सलज्जम् । अहो चित्रम् । असुन्दरं हि सलज्जं भवति स्वं न दर्शयति, इदं तु सुन्दरमपि स्वं न दर्शयतीत्याश्चर्यम् । अथ च-त्रपैवाकं दुःखम् , अपगतं त्रपाकं यस्मात्तदपत्रपाकं तादृग् न भवति लज्जारूपदुःखसहितम् । अत एव न जातं रूपं यस्य । सुरतार्थं सर्वनिर्वासने ताभ्यामुक्ते लज्जातिशयान्मुखं नितरां मलिनं जातं चित्रमेतदित्यर्थः । अथ च-पत्रयोर्मृत्पुटयोर्मध्ये यः पाकः स नास्ति यस्य तादृशमपि न भवति यत्तन्नापत्रपाकम् । कृतपुटपाकमिति यावत् । एवंभूतं सुवर्णमेव तव मुखमहो चित्रम्। मुखस्य सुवर्णत्वमाश्चर्यकारीत्यर्थः । यतः सलज्जम् , अत एवातितरां तापस्य क्रोधाग्नेरर्जने संपादने सत्यपि समक्षमश्लीलभाषणादिना सखीभिः कोपे समुत्पादिते सत्यपीतो मुखात्सकाशाद्दुर्वर्णानां परुषाक्षराणां निर्गमो न स्यात् । कोपे सत्यपि लज्जाबाहुल्यात्सखीः प्रत्यक्षरमपि परुषं न भाषसे एतदपि चित्रमित्यर्थः । अथ च-'कृतपुटपाकसुवर्णसुरूपं यतो' त एव पुटरहितम् । नितरामग्निदाहे सत्यप्यस्मात्सुवर्णाद्दुर्वर्णस्य रजतस्य निर्गमो न स्यात् । पुटपाकादेव मिश्रितरजतनिर्गमे सति निर्दुष्टस्य शुद्धतरस्य सुवर्णस्य पश्चा-


  1. 'द्राकुत्सायां गतौ' इति धातोर्लटि ‘कर्तरि कर्मव्यतीहारे' इत्यात्मनेपदम्' इति जीवातुः । 'न गतिहिंसार्थेभ्यः' इत्यात्मनेपद निषेधाच्चिन्त्यमेव । 'बहिर्भावमात्रविवक्षायां गत्यर्थत्वाभावादात्मनेपदमिति यथाकथंचित्समर्थनीयम् । प्रकारान्तरं वा गवेषणीयम्' इति सुखावबोधा।