पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७०
नैषधीयचरिते

 चिकुरेति ॥ हे राजन् , ते चिकुरप्रकराः केशसमूहा जयन्ति सर्वोत्कर्षेण वर्तन्ते । ते के -सा विदुषी पण्डिता भैमी यांश्चिकुरप्रकरान् (मूर्धनि) आबिभर्ति धारयति आभरणं करोति वा । चामरेण साम्ये सति सर्वोत्कृष्टत्वं कथमित्यत आह-पशुना चमरसंज्ञकेनाप्यपुरस्कृतेन पश्चात्कृतेन चामरेण तत्तुलनां तेषां केशानां तुलनां साम्यं क इच्छतु न कोऽपि । चमराणां हीनस्थानधारणात्तत्तुलना नास्ति । अथच ज्ञात्रा ये मस्तके ध्रियन्ते पूज्यन्ते तेषां मूर्खेणाप्यपूजितेनासता सह साम्यं कोऽभिलष्येत् । अतस्तत्केशानां सर्वोत्कर्षता । विदुषीति 'विदेः शतुर्वसुः' 'उगितश्च' इति ङीप् 'वसोः संप्रसारणम्' । तुलनाम् ‘ण्यास-' इति युच् । संज्ञापूर्वकविधेरनित्यत्वाल्लघूपधगुणाभावः॥

स्वदृशोर्जनयन्ति सान्त्वनां खुरकण्डूयनकैतवान्मृगाः।
जितयोरुदयत्प्रमीलयोस्तदखर्वेक्षणशोभया भयात् ॥ २१ ॥

 स्वदृशोरिति ॥ हे राजन् , मृगाः खुरेण कण्डूयनं कण्ड्वपनयनं तदेव व्याजस्तस्मात्स्वदृशोः स्वनेत्रयोः सान्त्वनामाश्वासनं जनयन्ति कुर्वन्ति । यतस्तस्या भैम्या अखर्वेक्षणशोभया विशालनेत्रशोभया जितयोः पराभूतयोः । अत एव भयादिवोदयत्प्रमीलयोर्जायमानतन्द्रीकयोः । लुप्तोत्प्रेक्षा । यथा केनचिजितं भीतमन्यमपि कश्चित्करपरामर्शादिना सान्त्वयति तथा मृगा अपि स्वनेत्रे सान्त्वयन्ति । 'तन्द्री प्रमीला' इत्यमरः।'खर्वो ह्रस्वश्च वामनः' इत्यमरः । उदय दिति 'इ गतौ' ॥


अपि लोकयुगं दृशावपि श्रुतदृष्टा रमणीगुणा अपि ।
श्रुतिगामितया दमस्वसुर्व्यतिभाते सुतरां धरापते ॥ २२ ॥

 अपीति ॥ हे धरापते पृथ्वीपते, दमस्वसुर्भैम्या लोकयुगमपि मातृकुलपितृकुललक्षणं श्रुतिगामितया लोकाकर्णनविषयत्वेन जगत्प्रसिद्धत्वेन सुतरां व्यतिभाते । परस्परोत्कर्षेण विनिमयेन वा भासत इत्यर्थः । इदं भैमीमातृकुलमिति जगद्विख्यातत्वम् (तेन) भैमीमातृकुलस्य शोभनं त मीपितृकुलेनाङ्गीकृतम् । एवं भैमीपितृकुलमिदमिति जगद्विख्यातत्वम् (तेन) भैमीपितृकुलस्य शोभनं ततोमीमातृकुलेनाङ्गीकृतमिति विनिमयः । भैमीसंबन्धेन पितृकुलवन्मातृकुलं मातृकुलवत्पितृकुलं शोभते । सादृश्यं तु तात्पर्यार्थः । तच्च सादृश्यं श्रुतिगामितया विशेष्यते । तच्च श्रुतिगामित्वलक्षणं सादृश्यं मातृकुलस्य पितृकुलापेक्षया पितृकुलस्य च मातृकुलापेक्षतया नतु दृगाद्यपेक्षया । एवं दृगादीनामपि सजातीयापेक्षयैव श्रुतिगामित्वलक्षणं सादृश्यमङ्गीकरणीयं नतु लोकयुगाद्यपेक्षया । तथा–दमस्वसुर्दृशावपि नेत्रे अपि श्रुतिगामितया आकर्णदेशविशालत्वेनातितरां विनिमयेन भाते शोभेते इति द्विवचनम् । दक्षिणनयनस्य श्रुतिगामित्वेन या शोभा तां वामनयनमङ्गीकरोति । वामनयनस्य च श्रुतिगामित्वेन या


१ 'अत्रातिशयोक्तिव्यतिरेकालंकारौ' इति साहित्यविद्याधरी । २ 'अत्र समासोक्तिरपह्नुश्चालंकारौ' इति साहित्यविद्याधरी । 'अत्र कैतवशब्देन कण्डूयनमपद्भुत्य सान्त्वनारोपादपहवभेदः' इति

जीवातुः।