पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९१०
नैषधायचारिते

योर्जलार्द्रीकृतवस्त्रयोः सख्योर्वीक्षारसाद्दर्शनकौतुकातिशयात्तयोः पश्चात्क्रमान्निश्चक्रमुः॥

ता बहिर्भूय वैदर्भीमूचुर्नीतावधीतिनि ।
[१]उपेक्ष्ये ते पुनः सख्यौ मर्मज्ञे नाधुनाप्यमू ॥ १३३॥

 ता इति ॥ ताः सख्यो बहिर्भूय गृहाद्बहिः स्थित्वा वैदर्भीमूचुः । हे नीतौ नीतिशास्त्रे अधीतिनि सुतरां कृताभ्यासे भैमि, ते त्वया मर्मज्ञे त्वद्रहस्यवेदिन्यावमू सख्यौ अधुनापि पूर्वं यत्कृतं तत्कृतमेव, इतः परमपि यावद्दूरं न गमिष्यतः, तावत्पुननोंपेक्ष्ये । 'विरोधयेन्न सर्वज्ञं नोपेक्षेत विरोधिनम् । प्रसादयेदशक्यं तु-' इत्याद्युशनःस्मरणान्मर्मज्ञयोरेतयोस्त्वया नीतिशास्त्रप्रवीणयोपेक्षा नैव कार्या किंत्वेते पुनः प्रसादनीये आकारणीये चेत्यर्थः । 'मर्मज्ञो ह्युपेक्षितो विकरोति' इति नीतिज्ञा त्वम् । तस्मादेते आकारय प्रसादय चेत्यर्थः । नीती, 'क्तस्येन्विषयस्य-' इति कर्मणि सप्तमी। ते, 'कृत्यानाम्-' इति षष्ठी॥

उच्चैरूचेऽथ ता राजा सखीयमिदमाह वः ।
श्रुतं मर्म ममैताभ्यां दृष्टं तत्तु मयानयोः ॥ १३४ ॥

 उच्चैरिति । अथ राजा ताः सखीरुच्चैर्दूरादाकर्णनयोग्यं तारस्वरं वक्ष्यमाणप्रकारेणोचे । हे सख्यः, वो युष्माकमियं सखी युष्मानिदं वक्ष्यमाणमाह । एताभ्यां मम मर्म रहस्यं श्रुतमित्येतावत् , मया तु पुनरनयोः सख्योस्तन्मर्म गुह्यमङ्गं दृष्टम् । 'श्रुतादृष्टं बलवत्' इति न्यायादेताभ्यामहमेव बलवतीति न कापि मे भीतिरिति वक्ष्यमाणभैमीवचनानुवादरूपेण नलोऽवोचदित्यर्थः। राज्ञा' इति पाठे-ताःप्रतिराज्ञा ऊचे इत्यर्थः । व इत्यावृत्त्या षष्ठीद्वितीयान्तम् ॥

मद्वि[२]रोधितयोर्वाचि न श्र[३]द्धातव्यमेतयोः ।
अभ्यषिञ्चदिमे मायामिथ्यासिंहासने विधिः ॥ १३५॥

 मदिति ॥ हे सख्यः, बहिर्निष्कासनाद्यनुमतिद्वारा मया विरोधितयोः कृतवैरयोरेतयोः सख्योर्वाचि न श्रद्धातव्यं सत्यत्वबुद्धिर्न कार्या । विरोधिनो हि प्रायेणासत्यमेव वदन्तीत्यर्थः । किंच विधिर्ब्रह्मा इमे सख्यौ मायानां कपटानां मिथ्या असत्यानां च सिंहासने कपटासत्यसर्वाधिपत्येऽभ्यषिञ्चत् । योऽनयोर्जलसेको दृश्यते स ब्रह्मकृतो मायामिथ्यासिंहासनाभिषेक एवेति भैमी मन्यत इत्यर्थः। तस्माद्भवतीभिरेतयोर्वचसि न विश्वसनीयमिति भावः । श्रद्धातव्यम्, अपितु न कथंचिदिति वार्थः॥ शत्रुवचसि न विश्वसनीयमित्येतदेवार्थान्तरन्यासेन समर्थयते-


  1. उपेक्षेते इति पाठः सुखावबोधासंमतः।
  2. 'विराधितयोरिति पाठेऽपि स एवार्थः । विपूर्वो
    राधिर्विरोधार्थः' इति,
  3. 'श्रद्धास्यध्वमिति पाठस्त्वशुद्ध एव' इति च सुखावबोधा।