पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९०६
नैषधीयचरिते

समये धातोः सकर्मकत्वेपि कर्माविवक्षयाहं शृणोमीत्येव चावोचम् , नतु त्वद्वाचमिति विशेषणमण्यवोचम् । शपथोपि साधारणश्रवणमात्रविषयत्वात्सत्य एवेति न कथंचिदपि ममालीकभाषित्वं त्वया शङ्कनीयमित्यर्थः। अशृणवंतमामिति तत्रोक्तत्वादत्र शृणोमीति श्रवणमात्रोपलक्षणपरं नतु भूतवर्तमानपरमिति ज्ञातव्यम् ॥

 'व्यर्थाः स्युर्मम देवताः' इत्यत्र देवताशब्दस्यान्यार्थत्वेन 'शपथो मया न कृत एव' इति समर्थयते-

आमन्त्र्य तेन देव त्वां तद्वैयर्थ्यं समर्थये।
शपथः कर्कशोदर्कः सत्यं सत्योपि दैवतः ॥ ११८ ॥

 आमन्त्र्येति ॥ हे राजन् , अहं तेन 'व्यर्थाः स्युः-'इत्यादिवाक्येन देवेति त्वामामन्त्र्य संबोध्य ताः श्रवणप्रतिपादका अशृणवंतमामित्यादयो मम गिरो व्यर्था अलीकाः स्युः, यथा त्वं मिथ्याभूता वेत्थ तादृश्य एव कामं स्युरिति अशृणवंतमामित्यादीनां त्वद्वचनप्रतिपादिकानामपि गिरां वैयर्थ्यमेव समर्थये सिद्धान्तत्वेन प्रतिपादयामि । अथ च-या गुमुगुमारवरूपा अश्रौषम्, याश्च त्वं मिथ्या वेत्थ तासां गिरामनुकरणशब्दत्वादर्थशून्यत्वान्निरर्थकत्वाद्वैयर्थ्यं समर्थये । पूर्वं कृतस्य शपथस्यान्यमर्थं कृत्वा कथमपलपसीत्यत आह–'सत्येनापि शपेद्यस्तु देवाग्निगुरुसंनिधौ । तस्य वैवस्वतो राजा धर्मस्यार्धं निकृन्तति ॥' इत्यादिमन्वादिवचनप्रामाण्याद्देवतासंबन्धी सत्योपि शपथः सत्यं निश्चितं यस्मात्कर्कशोदर्कः दारुणपरिणामः, किं पुनरसत्यः तस्मादिति ज्ञात्वा मया शपथो न कृत एव परं देवस्यैव शपथभ्रान्तिर्जातेत्यर्थः । अत एव त्वां देवेत्यामन्त्रितवती । दैवतः सत्योपि शपथः कर्कशोदर्क इति यन्मन्वादिभिरुक्तम् , तत्सत्यं यस्माच्छपथभ्रान्त्या संप्रत्येव त्वया मयि कलङ्क आरोपित इत्यर्थ इति वा ॥

 इदानीम् 'आर्जवं हि कुटिलेषु न नीतिः' इति न्यायादलीकभाषणेऽप्यदोषत्वमाह-

असंभोगकथारम्भैर्वञ्चयेथे कथं नु माम् ।
हन्त सेयमन[१]र्हन्ती यन्न विप्रलभे युवाम् ॥ ११९ ॥

 असंभोगेति ॥ हे भैमीनलौ, युवां 'भैमी मह्यं स्प्रष्टुमपि न ददाति, नलेनाहं कदाचिदपि न स्पृष्टापि' इत्यसंभोगकथारम्भैरन्योन्यसंभोगाभावविषयवृत्तान्तारम्भैर्मिथोनुभूतसुरतभरनिह्नवैः कृत्वा मां कथं नु कथमिव वञ्चयेथे प्रतारयथः। यत् तु पुनः अहं कर्मीभूतौ युवां विप्रलभे प्रतारयामि सेयमनर्हन्ती अयोग्या अनुचितकारिणी हन्त कष्टं चित्रं वेति काकुः । भवद्भ्यामहं वञ्चनीया मया तु भवन्तौ न वञ्चनीयौ का वा रीतिरियम्, वञ्चनकरणसाम्यात्समदोषगुणौ युवामहं चेति भावः। अर्हन्तीति 'अर्हः प्रशंसायाम्' इति शतरि उगित्त्वान्ङीपि नुम् । युवां कर्तृत्वेन (कर्मत्वेन) चावृत्त्या योज्यम् ॥


  1. 'अनार्हन्तीतिपाठे--यत्पुनर्युवामहं विप्रलभे सेयमनार्हन्ती अयोग्यता । अर्थान्ममेत्यर्थः' इति सुखावबोधा।