एहि शीघ्रमागच्छ विनिमीयतां परिवृत्तिः क्रियताम् । मह्यम्, 'क्रियया यमभिप्रैति-' इति संप्रदानत्वम् । भिन्नवाक्यत्वादन्वादेशाभावान्न मयादेशः ॥
वयस्याभ्यर्थनेनास्याः प्राक्कूटश्रुतिनाटने। |
वयस्येति ॥ अश्रुतरहस्यश्रवणार्थमाहूताया वयस्याया अभ्यर्थनेन स्वाश्रुतश्रवणप्रार्थनेन हेतुनास्याः कलायाः 'अशृणवंतमाम्' इत्यादि प्राक्कूटश्रुतिः पूर्वं कृतं मिथ्याशिरःकम्पादिपूर्वं श्रवणं तस्या नाटनेऽभिनये विस्मितौ अनया कथमावां प्रतारितौ स्वः दृष्टं दृष्टमिति मिथोवचनपूर्वं साश्चर्यौ तौ दम्पती शिरः कम्पितं कुरुतः स्मः । नाटने, चौरादिकान्नाटेर्नपुंसके भावे ल्युट् ॥
तथालिमालपन्तीं तामभ्यधान्निषधाधिपः । |
तथेति ॥ निषधाधिपः तथा रहस्यविनिमयकथनप्रार्थनरूपेण स्वपक्षभूतामालिं प्रत्यालपन्तीं तां कलामभ्यधादवोचत् । हे कले, मिथ्याशपथरूपात्साहसादंविचारितकारित्वाद्धेतोश्चेद्यद्यावां कर्णमोचनार्थमेव तयालीकवचनोक्त्या वञ्चितौ प्रतारितौ स्वो भवावस्तर्हि आस्स्व तिष्ठ । तर्हि आस्स्वेति भिन्नं वा । प्रतारणनिमित्तां तर्जनोक्तिमूचे इत्यर्थः॥
प्रत्या[१]लापीत्कलापीमं कलङ्कः शङ्कितः कुतः। |
प्रतीति ॥ कलापीमं नलं प्रति उद्दिश्यालापीदवोचत्। हे राजन्, त्वया प्रियाया भैम्याः परिजनस्य सेवकभूताया ममोक्तस्य वचनस्यैतावत्सु दिनेषु मध्येऽद्यैव मृषोद्यता मिथ्याभाषणतारूपः कलङ्को दोषः कुतः कस्माद्धेतोः शङ्कितः संभावितः, तत्कारणं कथयेति । सत्यवादिन्या भैम्याः परिचारिकाया ममालीकभाषित्वं संभावयितुमप्यशक्यमित्यर्थः । भैमी रात्रिवृत्तमपि सुरतमस्मदग्रेऽवृत्तमिति कथयति । परिजनश्च प्रभुसदृशो युक्तः। तथालीकभाषणं मम गुण इव नतु कलङ्क इत्यपि । 'परिजनस्योक्तौ' इति च पाठः॥
स्ववचनस्य सत्यतां प्रतिपादयति-
सत्यं खलु तदाश्रौषं परं गुमुगुमारवम् । |
सत्यमिति ॥ अहं तदा श्रवणपिधानकाले खलु निश्चितमश्रौषमिति सत्यम् , परं केवलं गुमुगुमारवं नतु त्वद्वचनम् । तथाच-श्रवणमात्रं सत्यमेवेत्यर्थः । शपथकरण-
- ↑ 'शिरःकम्पं चक्रतुरिति विस्मयभावोक्तिः' इति जीवातुः